________________
उपदेशप्रा.
॥१४३॥
Jain Education International 2010_0
पुनईरिः प्राह - " युद्धे कुलक्षयः जयसंशयः श्वपतनं च स्यात्" इत्यादिना बोधितोऽपि स नाबुध्यत, प्रत्युत कृष्णेऽपि बन्धनाद्यचिन्तयत् । एवं शासनेऽपि प्रत्युतोपदेष्टुरनर्थाय दिष्टो नवति, जजबाहुगुरुं प्रति वराहमिहर इव जमालिबो टिकसहस्रमलमंखलिपुत्रादयो दृष्टान्ताः स्वयमन्यूह्याः २ । अथ मूढस्तृतीय उपदेशानई इत्याह
ज्ञानोपहतचित्तः कार्याकार्याविचारकः । मूढः स एव विज्ञेयो वस्तुतत्त्वमवेत्तृकः ॥ १ ॥ कण्ठ्यः । जावार्थस्तु ज्ञातेन ज्ञेयः । तद्यथा - एकस्मिन् पुर एका स्त्री विधवा कष्टेन दिनान्निर्गमयति । इतश्च वृद्धिं गतेन पुत्रेण सा पृष्टा - "मदीयपितुः काऽऽजीविका श्रासीत् ?” । तयोतं - "राजसेवा" । तेनोकं - "अहमपि तां करोमि । तया प्रोक्तं - "पुत्र ! दुष्कराऽसौ महता विनयेन क्रियते " स उवाच - " कीदृशः पुनरसौ विनयः ?” । तयोक्तं - " सर्वस्यापि दृष्टस्य ज्योत्कार्यः, नीचैर्वृत्त्या - | स्यापि जाव्यं" । " एवं करिष्यामि " इत्यन्युपगम्य चलितोऽयं राजसेवार्थ । मार्गे हरिणेष्वागछत्सु वृक्षमूले व्याकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः । तेषां च तेन महता शब्देन ज्योत्कारः कृतः । ततस्त्रस्ता मृगाः पलायन्त । व्याधैः कुट्टयित्वा वचोऽसौ । ततस्तेनोक्तं - " जनन्याऽहं शिक्षितो दृष्टस्य | सर्वस्यापि ज्योत्कारः कार्यः” । ततश्च रुजुरयमिति ज्ञात्वा मुक्तस्तैः, शिक्षितश्च यथा “ईदृशे दृष्टे निखीने मौनेनागम्यते " । एतदन्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां वस्त्राणि तस्करैर्नित्यमपद्रियन्ते । ततस्तत्र दिने सकुटादिहस्ता रजकाः प्रष्ठन्नमुपविष्टा हेरयन्तस्तिष्ठन्ति ।
For Private & Personal Use Only
तंज. १६
॥१४३॥
www.jainelibrary.org