________________
Jain Education International 2010_1
किमपि तगृहात् शाकं पर्पटं च । साऽपि सपलीं शाकमयाचिष्ट । तयोकं - " अद्य राज्यं कुतः शाकं ?” । तयाऽऽगत्योक्तं स्वामिने । पुनरुक्तं तेन - “ किञ्चिद्धरितादिकमपि मार्गय" । पुनर्गत्वा साऽमार्गयत् । "कर्मकरेन्यो दत्तं, उच्चरितमपि नास्ति" इति प्रत्युवाच सपत्नी । तदपि तया स्वपतये निवेदितं । पुन| रित्यक्षपत् - " तदालयाद्यत्किञ्चित्काञ्जिकप्रमुखमध्यानय" । ततः कपायिता सा गत्वा बहिः सद्यो व्युत्सृष्टं वत्सगोमयं तुवरिचनक पिष्ट मिश्रं गृहीत्वा ( कृत्वा) किञ्चित्संस्कृत्य "तगृहादानीतं" इति वदन्ती उपपति निन्ये । तलवरस्तुष्टोऽनाणीत् - "अहो मिष्टं । श्रहो स्त्रीगुणः !” इति । एष स्त्रीरको यथा गुणदोषविवेकपराङ्मुखस्तथा यः क्वचिद्दर्शने रक्तः स विशिष्टगुणदोषौ न वेत्ति, स धर्म नामोति । यतः - | मिथ्यात्वपङ्कम लिन श्रात्मा विपरीतदर्शनो जवति । श्रद्धसे न च धर्म मधुरमपि रसं यथा ज्वरितः ॥ १ ॥ इति १ । छात्र द्वितीयो द्वेषी धर्मानई: इत्याह-
यो यस्मिन् द्वेषमापन्नः क्रोधमाना तिरेकवान् । स लुम्पति गुणांस्तस्य दोषान् प्राडुष्करोत्यतः ॥ १ ॥ स्पष्टः । ज्ञातं चेदं वनवासे त्रयोदशवर्षातिक्रमे कौरवपाएकवयोः कलहमायतिविरसं मत्वा सन्धये श्रीकृष्णो दुर्योधनं प्राह पाएकवोदितम् -
इन्द्रप्रस्थं यवप्रस्थं माकन्दी वरुणावतम् । देहि मे चतुरो ग्रामान् पञ्चमं हस्तिनापुरं ॥ १ ॥ इत्थं पञ्चग्राममार्गणे दुर्योधनोऽवदत्सूच्यग्रेण सुतीक्ष्णेन या जिद्यते च मेदिनी । तदर्धे तु न दास्यामि विना युद्धेन केशव ॥
१ ॥
For Private & Personal Use Only
www.jainelibrary.org