SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 विधिर्विधाता नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्मदेवाः । यानि पुण्यानि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य ॥ ४ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म कर्तारमनुधावति ॥ ५ ॥ यथा छायातपौ नित्यं सुसंबद्ध परस्परम् । एवं कर्म च कर्ता च संश्लिष्टा वितरेतरम् ॥ ६॥ थोद्यमः - न यथैकेन हस्तेन तालिका संप्रपद्यते । तथोद्यमपरित्यक्तं न फलं कर्मणः स्मृतम् ॥ ७ ॥ पश्य कर्मवशात्प्राप्तं नोज्यकाले च जोजनम् । हस्तोद्यमं विना वक्रे प्रविशेन कथञ्चन ॥ ८ ॥” पुना रावणः पप्रछ - "स्वामिन् ! कोऽपि मृत्यूलङ्घनोपायोऽस्ति ?” । गुरुरुवाच - "हे त्रिखमेश्वर !परिहरति न मृत्युः परिमतं श्रोत्रियं वा, धनकनकसमृद्धं बाहुवीर्यं नृपं वा । तपसि नियमयुक्तं सुस्थितं दुःस्थितं वा, वनगत इव वह्निः सर्वभक्षी कृतान्तः ॥ १ ॥ ये पाताल निवासिनोऽसुरगणा ये स्वैरिणो व्यन्तरा, ज्योतिष्क विमानवासि विबुधास्ताराश्च चन्द्रादयः । सौधर्मादिसुरालयेषु सुखिनो ये चापि वैमानिका सर्वेऽपि कृतान्तवासमवशा गछन्ति किं शोच्यते ॥ २॥ इत्यादिगुरूपदेशतः प्रबुद्धो नित्यं शान्तिजिननक्तिं चकार । श्रन्यदा स दशवदनः पुष्पक विमान For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy