________________
उपदेशप्रा.
॥१२२॥
Jain Education International 2010)
खायां चटित्वा यावदिलोकितं तावत्तरुकोटरेऽजगरो दृष्टः । तं वीक्ष्य राज्ञा ध्यातं - " तजलं प्रसुप्तस्यास्य मुखारलं पतितं यदि मया पीतमजविष्यत्तर्हि निश्चयेन मम मरणमजविष्यत् । अहो ! एतेन पक्षिणा मम निवारणं वारंवारं कृतं परं मूर्खत्वेन मया न ज्ञातं । हा हा ! परोपकारी खगो वृथा निहतः " । इत्थं पश्चात्तापं कुर्वतस्तस्य नृपस्य सैनिकाः समाजग्मुः । ततस्तं पक्षिणं सहादाय स्वपुरे एत्य चन्दनकाष्ठैः संस्कारं विधाय जलाञ्जलिं दत्त्वा स राजा मन्दिरं संप्राप्य शोकातुर उपविष्टः । तदा मन्त्रिसामन्ताद्यैः पृष्टः - " हे नाथ ! जवता पक्षिणः प्रेतकार्य कृतं तत्किं कारणं ? " तदा राज्ञा तत्कृतोपकारो निवेदितः, "स पक्षी मया जावजीवं न विस्मरिष्यते" इत्युवाच च । यथाऽविमृश्य कार्यक - रणात्स नूपः पश्चात्तापमाप तथाऽन्योऽपि प्राप्नोति । अत्रायमुपनयः – पहिरूपोऽजरामरपददायको नृजवः, तं चतुर्गतिजवपर्यटनं कुर्वन् जीवः कथमपि लब्ध्वाऽविरत्यादिना नरजन्महानिं तनुते सोऽत्यन्तं शोच्यते । अथवा पक्षिसमां समग्रोपकारकारिकां जिनवाणीं संप्राप्य स्वानिनिवेशरूपकशाघातेन तां निहन्ति स महामूढः । यतः -
शिलातलाने हृदि ते वहन्ति, विशन्ति सिद्धान्तरसा न चान्तः । यदत्र नो जीवदयाता ते, न जावनाङ्केरततिश्च लच्या ॥ १ ॥
हे श्रात्मन् ! शिलातलसदृशे तव हृदये सिद्धान्तरसाः प्रवहन्ति च परमन्तःकरणमध्ये न प्रविशन्ति, १ दीर्घोकारश्चिन्त्यः.
For Private & Personal Use Only
स्तन. १६
॥१२
www.jainelibrary.org