SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_ लति । श्रान्तेन भूपेन वहगा शिथिलैव भुक्ता, तदा तत्रैव स्थितः । तदानीं राज्ञा स विपरीत शिक्षो ज्ञातः । एतावता स नृपस्तुरगाडुत्तीर्य पर्याणमपनयति स्म, तावता संजातत्रोटः सन् सोऽश्वो मृतः । ॥ अथ तत्र जी मारण्ये तृषा क्षुधापीकितो नृप एकाकी वन्नाम । तदा वनमध्ये भ्रमन् राजा विस्तीर्ण वटमेकं वीक्ष्य खिन्नः सन् गत्वा तस्य छायायामुपविश्य यावत्पार्श्वावलोकनं करोति तावता तस्यैव वृक्षस्य | शाखायाः पततो जलबिन्दून् दृष्टवान् । तदा राज्ञा ध्यातं - " इदं वर्षाकालसंभवं जलं शाखारन्ध्रे श्यत्कालं संस्थितं, साम्प्रतं तत्पतति" । इति विमृश्य पलाशपत्रजाजनं कृत्वा तृषाक्रान्तेन राज्ञा तत्र निवे - शितं । क्रमेण नीलकलुषाम्बुना तत्पूरितं राजा गृहीत्वा यावत् पिवति तावत्तत्र कश्चित् पक्षी वटशाखाया उत्तीर्य तकलपात्रं नृपकरात् पातयित्वा तरुशाखायामुपविष्टः । पुनरपि विलको राजा तथैव जलपात्रं प्रपूर्य यावत्पातुं समुद्यतस्तावता पुनरपि तेन पक्षिणा तथा कृतं । तदा राजा क्रुद्धः सन् दध्यौ - " यद्यसौ दुरात्मा पक्षी अधुना समेष्यति तर्हि मारयिष्यामि " । इति विचिन्त्य एकेन करेण कशां गृहीत्वा दितीयेन जलार्थं पुनः पत्रपुटं स्थापयामास । एतावता स पक्ष्यचिन्तयत् — “श्रयं नूपः कुपितोऽस्ति, यदि | पुढं पातयिष्यामि तर्हि नूनमेष मां हनिष्यति । चेन्न पातयामि तर्हि अस्मिन् विषजले पीतेऽयमवश्यं मरिष्यति, ततो मम मरणं वरं, परमयं नूपो यदि जीवति तदा व्यं" । इति विमृश्य पुनरपि तेन नृपकरात्पत्र पुटः पातितः । कुपितेन राज्ञा कशाघातेन स सपदि व्यपादि । ततो नृपेण जलार्थ भूयोऽपि तत्पात्रं स्थापितं क्रमेणान्रजलमग्रतोऽग्रतः पतति स्म । तदानीं नूपेन सविस्मयेन समुत्थाय वृक्षशा For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy