SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१२०॥ Jain Education International 2010_ ततो दृष्टः श्रेष्ठी स्वस्थानं चचाल । नृपस्त्वाम्रफलं करे कृत्वेति दध्यौ — सकृदेकाक्येवादमद्मि तेन को गुणो भवेत् ? श्रतोऽहमेतद्वीजवापनं सुक्षेत्रे कारयामि, ततो यथेच्छं फलदानेन सुतवलनादीन् वीतजरसो विदधामि । इति ध्यात्वा सुक्षेत्रे तद्वीजवापनं विहितं । क्रमात्तस्मिँश्रुतद्रुमे पुष्पिते फलिते च सति राजा रक्षकाणां प्रीतिदानं दत्त्वेति बजावे - " अयं यत्नतो रक्षणीयः” । इति नृपवचः श्रुत्वा ते रक्षकनरा दिवारात्रौ तत्रैव तिष्ठन्ति । एकदा दैववशतो रात्रौ स्वयमेव त्रुटित्वा फलमेकं भूमौ निपतितं । तदा प्रगे रक्षकनरैस्तत्फलं परिपक्कं पतितं दृष्ट्वा प्रहृष्टैः शीघ्रमेव नृपाय दत्तं । तदा नृपेणापि चिन्तितं - "एतन्नूतनफलं पूर्व कस्मैचित् पात्राय दीयते” । ततश्चतुर्वेदधराय दिजाय तत्फलं मतिपूर्वकं नूपो ददौ । द्विजोऽपि तत्फलनक्षणाठीघ्रं मृतः । तघार्ता नृपेण श्रुता । सखेदः प्राह - "अहो ! मया धर्मबुद्ध्या महत्तरं ब्रह्महत्यापातकं लब्धं । नूनं मे विषवृक्षफलमेव केनाप्यरिणा प्रपञ्चं विधाय मम मारणाय प्रेषितं । तदयं स्वयमुप्तोऽपि प्रयत्नतः पालितोऽपि विषपादपः शीघ्रमेव विपाद्यतां । ततस्तत्क्षणमेव नृपनरैस्तीक्ष्णकुठारैः स द्रुमवरो मूखादपि वित्त्वा भूमौ निपातितः । तदा मारिकुष्ठ पित्तादिरुजार्दिता जना - स्तद्विषाम्रछेदनं श्रुत्वा जीवितनिर्विक्षाः सन्तस्तत्रागताः सुखमृत्यवे । तन्मध्ये केनापि तस्य द्रुमस्य शेषं काष्ठादिकं कुत्सितं दखं च नक्षितं । तेन सर्वेऽपि नीरोगा जाता अद्वितीयरूपान्विता बभूवुः । तान् वीदय सविस्मयो भूपो रक्षकनरानाकार्य पृष्टवान् – “जोः ! आम्रफलं जवनित्रोटितं किंवा स्वयंपतितं गृहीतं ? " । इति श्रुत्वा तैः सत्यमुक्तं । तदा राज्ञा विमृष्टं - " नूनं तत्फलं सर्पादिविषेण मिश्रितं जावि, For Private & Personal Use Only स्तंच. १६ ॥११०॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy