________________
Jain Education International 2010_1
स्तवाहं कीदृशमुपकारं करोमि ? तथापि मत्समानीतमिदमाम्रफलं त्वया गृह्यतां ” । श्रेष्ठी प्राह"त्वप्रदयं तवामेतत्फलं त्वं जदय, श्रन्यदपि तव शर्कराजादादिकं जदयं यामि" । शुकः स्माह - " एतस्य फलस्य व्यतिकरं शृणु - विन्ध्याटव्या एकस्मिन् द्रुमे कीर मिथुनमस्ति तत्पुत्रोऽहं ज्ञेयः । तौ मत्पितरौ क्रमेण वृद्धभावेन जराक्रान्तौ लोचनाच्यां न पश्यतः । तदाऽहमेव जक्ष्यमानीय तयोर्ददामि । तत्रारण्य एकदा मुनि युगलं समागतं । तेन साधुयुगेन दिगवलोकनं कृत्वा निर्व्यञ्जनत्वादीदृशी वार्ता कृता - समुद्रस्य मध्ये कपिशैलशृङ्गे सदाफलः सहकारद्रुमोऽस्ति, तस्यैकमपि फलं य एकवारं प्रक्ष्यति तदङ्गतः सर्वव्याधयो नश्यन्ति, कालमरणं जराजीर्णत्वं तस्य न जवति । इति श्रुत्वा मया ध्यातं - | मुनेर्वाक्यं सदा पथ्यमवन्ध्यं च स्यात्, अतस्तत्फलं समानीय मातापित्रोर्यदि ददामि तेन तौ तारुण्यावस्थौ भवतः । तदनु तत्र गत्वा मया तत्फलं समानीतमस्ति, त्वं गृहाण, श्रहमन्यफलं समानीय पित्रो| र्दास्ये” । तदानीं श्रेष्ठिना शुकाग्रहेण तत्फलं समाददे । शुकः पुनर्ननस्तले उत्पपात । ततः श्रेष्ठिना चिन्तितं - “ एतत्फलं यदि कस्मैचिन्नरेन्द्राय प्रदीयते तर्हि बहूनामुपकारो जवेत् । मया जक्षितं तदा किं ? न नक्षितं तदाऽपि किं ? " इति ध्यात्वा तेन तदास्रफलं जव्यस्थाने गोपितं । तदनन्तरं किय निर्वा सरैस्तत्प्रवहणं परं कूलं संप्राप्तं । तदा श्रेष्ठ प्रवहणात्ती र्योपायनं गृहीत्वा भूपतिपार्श्वे ययौ । उपायनं ढौकितं । तत्फलं राज्ञे समर्पितं । तदा राज्ञा सविस्मयेन प्रोक्तं - "नोः श्रेष्ठिन् ! किमेतत्फलं ? " । तदा तेन नृपाग्रे फलस्य परमार्थः कथितः । तदा राजा नृशं संतुष्टः समस्तमपि शुक्लं तस्य मुमोच ।
For Private & Personal Use Only
www.jainelibrary.org