SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010. हितं वाञ्छसि । कृष्णः स्माद - " तत्परमानन्दपदे प्राप्ते सत्येव याति नान्यथा " । इति श्रुत्वा श्रावचात्मजः स्माद - " श्रत एव मृत्युविहितविरूप निवारणाय नेमिचरणाम्बुजं सेविष्येऽहं” । इति तस्य स्थैर्यमवेक्ष्य हृष्टो लक्ष्मीशः पुर्यामित्युदघोषयत् - " जो जो! यः कोऽपि श्रमुना सह प्रव्रजति तस्य कुटुम्ब निर्वाहं दीक्षोत्सवं च कृष्णः स्वयं करोति । ततः सहस्रनरैः सह तस्य दीक्षामहोत्सवं चकार । सहस्रनरवाह्य शिबिकारूढः सहस्रनरैः सह जिनान्यर्णे समेतः । तदा यावच्चा जिनं प्राह - " इमां शिष्य - निक्षां गृहाण, एनं द्विशिक्षान्वितं विधेहि" । पुनः साश्रुनेत्रा पुत्रं प्राह - " हे पुत्र ! त्रार्थे प्रमादो न कार्यः” । ततः स सहस्रनरैः सह प्रब्रज्यां जग्राह । क्रमेण सामायिकादिचतुर्दशपूर्वाण्यधीत्य सहस्रशिष्याचार्य एकदा जिनाां गृहीत्वा विहरन् सेलकपुरे समवसृतः । तत्पुरेशः पञ्चशतपन्यकप्रनृ तिसचिवानां नायकः सेलकनृपः सोत्सवं श्रीगुरुं नत्वा देशनां श्रुत्वा सामात्यः श्राद्धधर्म जग्राह । इतश्च सौगन्धिकपुरे श्रेष्ठी सुदर्शनाख्यो वसति । तत्र चातुर्वेदी शौच १ संतोष २ स्वाध्याय ३ तपो ४ देवध्याने ५ तिनियमयुक्तः सहस्रशिष्याचार्यो गैरिकवस्त्रावृतः सहस्रतापसान्वितः शुकपरित्राजक श्रागात् । तस्य शौचमूलः साङ्ख्यधर्मस्तपचसा सुदर्शनेन गृहीतः । तत्रान्येद्युर्विहरन् थावच्चासुताचार्यः समागात् । सुदर्शनः परीक्षार्थमेत्य पप्रछ – “युष्माकं शौचमूलो धर्मोऽन्यो वा १" । सूरिराह - "हे श्रेष्ठिन् ! अस्माकं विनयमूलो धर्मः सोऽपि दिधा साधुश्रानेदाच्यां, सोऽपि दशधा क्षान्त्यादिनिः” । तदाक्यैः प्रबुद्धः श्रेष्ठी श्राद्धधर्म प्राप, अधिगतजीवादितत्त्वोऽस्थिमज्जा सुप्रेमाभूत् । अन्यदा तस्य पूर्वगुरुः शुकः For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy