________________
Jain Education International 2010]
कपिलस्य महामुनेः षण्मासी ययौ तदा चरमज्ञानमभूत् । इतश्च राजगृहस्यापान्तरालेऽष्टादशयोजनमानाऽतिजयङ्कराऽटव्यस्ति, तस्यामटव्यां बसनादयः पञ्चशतीचौरा वसन्ति स्म । प्रत्येकबुद्धर्षिस्तान् बोधार्हान् ज्ञात्वा तत्रारण्ये समेतः । ते चौरा श्रपि ज्ञान्यन्तिके एयुः । पतीशो ज्ञानिनं प्राह - “निर्य - न्थस्य तव नृत्यं समायाति ?” । खानं मत्वा मुनिः प्राह - "वादित्रवादकान् विना नृत्यं न स्यात्" । चौरैरुक्तं - " तालवादका वयं जविष्यामः, त्वं नृत्यं कुरु" । अथ कपिलमुनिर्यतनया नृत्यं करोति । ते चौरा अमितो चान्त्वा चान्त्वा तालादिकं वादयन्ति । साधुस्तु तेषां मध्ये नृत्यं कुर्वन् प्राकृतबन्धेन ध्रुवान् गाथाश्च गायति, यथा
सासम्म संसारम्मि पुरकपूराए । किं नाम हुआ तं कम्मं जेणाहं दुग्गई न गछेका ॥ १ ॥ इत्यादिपञ्चशतगाथा ज्ञानी जगौ । ता ध्रुवाः श्रुत्वा ते चौराः सर्वेऽपि प्रत्यबुध्यन्त, पञ्चशतचौराणां व्रतं ददौ । देवतादत्तलिङ्गास्ते महर्षिणो बजूवुः, ते सर्वे केवलिना सार्धं नुवि विहरन्ति स्म । ततः कपिलकेवली कियन्ति वर्षाणि पृथिव्यां विहृत्य मोक्षं जगाम । | इत्थं कपिलमहर्षिः सम्यग्नावेन केवलं लेने । बलन प्रमुखानपि चौरान् प्रतिबोध्य सिद्धिमगात् ॥ १ ॥ ॥ इत्यन्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशस्तम्ने २२० व्याख्यानम् ॥
For Private & Personal Use Only
www.jainelibrary.org