SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥१०४॥ उपदेशप्रा. पूर्वमभूत् तं पतिं स्मृत्वा जातखेदा रोदिमि, श्रनेन तव पितुः श्रीः प्राप्ता, त्वं त्वपठितः” । पुनः कपिखो जजहप - " एतत्पितृपदं कथमायाति ?" । तया प्रोक्तं "विद्याभ्यासं कुरु यथा तव जनकस्थाने राजा पुनस्त्वां स्थापयति” । स प्राह - "हे मातः ! श्रहं कस्य समीपेऽध्ययनं करोमि ?” । साऽवदत्-" -"अस्यां नगर्यां सर्वोऽपि तव द्वेषी वर्तते, तस्मात्रावस्त्यां पुर्या तव पितुर्मित्रमिन्द्रदत्तो दिजः परिमतस्त्वां सकलकलापूर्ण करिष्यति” । ततस्तत्र गतः कपिलः, तस्य चरणौ नत्वा व्यजिज्ञपत् - "हे तात ! मात्रा त्वपान्ते प्रेषितः पठनायागतोऽहं” । ततस्तेनोत्सङ्गे धृतः संज्ञापितो जोजितश्च । ततः प्रोक्तं - " श्रहं तव विद्याभ्यासं कारयिष्ये, परं तव जोजन चिन्ता कथं जविष्यति । मम गृहे तु तन्नास्ति यद्भुज्यते” । ततस्तेनोक्तं- “नियाऽहं जोजनं करिष्ये" । इन्द्रदत्तेनोक्तं - " जो वत्स ! निक्षाभ्रमणे विद्यान्यासो न जवति, तथा जोजनरहितस्याध्ययनं न जवति, यतो विना जोजनं मुरजोऽपि न गुञ्जति, श्रतः प्रथमं तच्चिन्ता क्रियते " । ततस्तं बालं करे धृत्वा इन्द्रदत्तः शालिन महेन्यगृहे गतः, सूर्भुवः स्वरित्यादिगायत्री मन्त्रं गाढस्वरेण पठन् बहिः स्थितः स्वं द्विजन्मानं तमज्ञापयत् । ततः श्रेष्ठिना समाहूय पृष्टः - “जो विप्र ! किं याचसे ? यत्तवेप्सितं तद्याचस्व" । इन्प्रदत्तेनोक्तं - " एष बालो विप्रो विद्यार्थी, त्वमस्य प्रत्यहं भोजनं देहि, श्रहं विद्यां प्रयवामि, यतो मम अव्यं नास्ति, तो जवदन्तिके प्रत्यहं भोजनं | याचे" । तस्य जोजनं श्रेष्ठिनाऽङ्गीकृतं । तद्दिनादारच्य कपिल इन्द्रदत्तपार्श्वेऽधीत्य शालिनषगृहे नोक्तुं याति, तदा तस्यैका दासी परिवेषयति । ततो दास्यादिक्रमेण तस्यां रक्तो जातः, साऽपि रक्ता बभूव । Jain Education International 2010_1 For Private & Personal Use Only स्तंज. १५ ॥१०४॥ www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy