________________
उपदेशप्रा.
॥ ५१ ॥
Jain Education International 201
अत्रावसरे राज्ञा सूरीश्वरः पृष्टः - "स्वामिन् ! मत्सूनोर्वरदत्तस्य कथं कुष्ठरोगोऽभवत् । किञ्चित्पठनं नायाति तत्कुतः ?” । गुरुर्जगौ - श्रस्य पूर्वजवं शृणु
अत्र जरते श्रीपुरे वसुनामेयोऽभवत् । तस्य पुत्रौ वसुसारवसुदेवौ । एकदा तौ क्रीमार्थं वनं जग्मतुः । तत्रागतसूरिदेशनां निशम्य तातमापृष्ठ्य तौ व्रतं जगृहतुः । लघुर्वसुदेवसाधुः सिद्धान्तपारगामी सूरिपदं क्रमात्प्राप । नित्यं पञ्चशतवाचना: प्रदत्ते । एकदा संस्तारके सुतं सूरिं कोऽपि तपोधन श्रागमार्थमपृछत् तस्मिन्मुनौ गते द्वितीयोप्येत्यार्थ पृष्ट्वा गतः । एवमन्येषु भूयस्सु पृष्ट्वा पृष्ट्वा गतेषु सूरिः किञ्चिन्नित्रायमाणः सन् केनापि साधुना पृष्टः- “ पूज्य ! प्रेतनं पदं वाक्यं पदार्थोऽपि प्रकाश्यतां" । तदा सूरिर्दध्यौ - "अहो ! मम जाता वृद्धः सुखं शेते स्वैरं तुझे नापते च । ईदृशं सौख्यं मम जातु जायते तदा सुन्दरं । यत उक्तम्
मूर्खत्वं हि सखे ममापि रुचितं तस्मिन् यदष्टौ गुणा, निश्चिन्तो बहुभोजनोऽत्रपमना नक्तंदिवा शायकः । कार्याकार्यविचारणेऽन्धबधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ॥ १ ॥
छतः परं पठन पाठनं च सर्वे मया न कार्ये" । एवं पुण्यामृतघटस्तेन जनः पापघटं नृत्वा द्वादश दिनान् यावन्मौनं चकार । तत्पापमनालोच्य रौषध्यानपरो मृतः । सोऽयं तवाङ्गजो जज्ञे । पूर्वकर्मणा मूर्खः कुष्ठादिरोगाक्रान्तश्च जातः । सूरेर्बृहद्धाता मृत्वा मानससरसि हंसबाखोऽजवत्" । इति श्रुत्वा वरदत्तो जातिस्मरणं प्राप्य प्राह - "अहो ! सत्यं जगवपचः, श्रहो ज्ञानं !" । नृपो बजाण - "जगवन् !
For Private & Personal Use Only
स्तंच. १५
॥ ९१ ॥
www.jainelibrary.org