SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ गतः । कपाटविषेण पितरं वीदते तावद्यवर्षिणा सहजबुध्ध्याऽऽद्या गाथा गुणिता । तां श्रुत्वा दध्यौ-1 "अहो ! ममाजिप्रायोऽनेन ज्ञातः, यतः, स कथयति-उहावसि० किं यवं यवर्षि जक्ष्यसि त्वं है ! गहा हे गर्दनिस !" इति स्वमत्या नृपेणार्थो निर्णीतः । पुनर्दध्यौ-"मत्पित्रा ज्ञानेन ज्ञातोऽहमितस्ततः पश्यन् , अपि च यद्ययं ज्ञानी सत्यस्तर्हि मम स्वसुः शुधिं वक्ति" इति चिन्तनकाखे एव मुनिना हितीया गाथा गुणिता । तेन तां श्रुत्वाऽयमर्थश्चिन्तितो नृपेण-"सर्वत्र गवेषिताऽपि साऽणुविकाऽगमे । भूमिगुप्तगृहे क्षिप्तास्ति” इत्यवगम्य जातप्रत्ययः पुनर्दध्यौ–“मत्स्वसा येन गोपिता तन्नाम प्रकाशयति चेत्तदा वरं" । तावत्तृतीया गाथा परावर्तिता । तां श्रुत्वा तस्या अर्थोऽयं ध्यातः-"त्वं सुकोमलोऽसि, रात्रौ गमनं त्वदीयं शीलं श्राचारः, अस्मत्तस्त्वं बिजेषि परमस्मत्प्रसादात्ते जयं न, किंतु दीर्घपृष्ठाह्वस्त्वतन्मन्त्री तत्कृतं जयं तवास्ति' । ततो जग्नसंदेहो घारमुद्घाट्य पितरं झानिनं जिघांसुं स्वं निन्दन्नुदश्रु मुनिं नत्वा स्वापराधप्रकाशनपरः क्षमितवान् । मुनिमौनमेवाकरोत् “तदेव हि सर्वार्थसाधन” इति । ततो नृपः स्वगृहागतो रात्रिशेषमतिवाह्य प्रातर्मन्त्रिगृहं नटैः शोधयित्वा भूमिगृहे जगिनी लब्ध्वा । मन्त्रिणं देशान्निरकासयत् । ततो ज्ञानिनं मुनि प्रशस्य तं च नत्वा तयुक्तं धर्म प्रत्यपद्यत । पौरैश्च सह बन्धुवर्ग प्रतिबोध्य यवर्षिर्गुरुपाद्ये गतः गुरवोऽपि तयुक्तं श्रुत्वा विस्मयं प्रापुः। त्यक्त्वावस्यं श्रुतं पश्चात् पपाठ विनयान्वितः । पठनाध्यक्फलं दृष्ट्वा तपस्तप्त्वा शिवं ययौ ॥१॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International 2010
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy