________________
Jain Education International 2010
॥ व्याख्यानम् ॥ २१२ ॥
पूजाविधि:--
निश्चयानव्यजीवेन पूजा कार्या जिनेशितुः । दमयन्त्येव कट्ट्याए सुख सन्ततिदायिनी ॥ १ ॥
स्पष्टः । ज्ञातं चेदं - कोशलापुर्या निषधो नृपः । तस्य सुतौ नलकूबरौ जातौ । इतो विदर्भदेशे जीमनूपसुता दमयन्ती सर्वाङ्गसुनगा सकलकलाखा निर्वर्धमानाऽष्टादशवर्षाण्य तिचक्राम । ततो जीमनृपः सुताया वरलिप्सया स्वयंवरमारेजे । तत्र नलकूबराच्यां सह निपधादयो नृपाः समीयुः । ततः स्वप्रतिहारी वर्णनपूर्वकं नलकण्ठे दमयन्ती वरमालां न्यधात् । शुभक्षणे पाणिमोचनपर्वणि नखाय जीमनृपो रथरलाम्बेजान् ददौ । कियतो दिनान् यावत्तत्र स्थित्वा पुत्रवधूयुक्तः कोशलान् प्रति प्रस्थितो निषधः । तदा जीमः स्वसुतामनुशास्य न्यवर्तत । मार्गे ब्रजन्तः सन्तोऽरण्यं प्रापुः । तदा सूर्योऽस्तं गतः । तमोनरेण | मार्गशुद्धिर्बुर्निरीक्ष्या जाता। पदे पदे संचलत्तस्य सैन्यं दिड्यूढं जातं । तदा दमयन्ती स्वजालमुन्मृज्याङ्गरागेण तिरोहितं तिलकमुत्तेजयामास । तस्य तेजसा दम्पती अग्रे प्रतिमास्थितं मुनिमेकमपश्यतां । तदा साधोः शरीरेण सार्धं मदोन्मत्तो वनगजः शुएकादरमेन संघर्षणं कुरुते तेन गजमदः साधुदेहे लग्नः, तस्य गन्धेन चमरा गुञ्जन्तो निःस्पृहं मुनिं पीमयन्ति स्म । ईदृक् साधोः स्वरूपं वीक्ष्य निषधादयस्तं नत्वा तेनोक्तां धर्मदेशनां श्रुत्वा पप्रनुः - " अहो ! स्वामिन्! दमयन्त्या जालस्थलाडुद्योतः कथं प्रादुर्भूतः ?” ।
For Private & Personal Use Only
www.jainelibrary.org