SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat 238 तदा तान् सूरीनाकार्य प्राह - "जवतो मुकान्मुक्त्वाऽन्ये सर्वेऽपि लिङ्गिनो दिजाश्च मां सार्वभौमं यज्ञधर्मकृत्यं च ज्ञात्वा नमन्ति स्तुवन्ति च । यूयं किं मत्तोऽधिकाः स्थ ? । तस्मान्मे भूमौ साधुजिर्न स्थेयं सप्तवासराधिकं यदि मद्भूमौ स्थास्यन्ति तेषामहं हन्ता अत्र दूषणं मम न देयं । ततः पौरैः सामवचोनिः शिक्षितोऽपि स्वाभिनिवेशं नामुञ्चत् । ततः सूरयो दध्युः - “सर्वत्रास्य राज्यं वयं चतुर्मास्यां सप्त दिनमध्ये क्व गच्छामः ?” इति विचिन्त्य साधून् पप्रन्नुः - " एतेषु मध्ये गगन मार्गलब्धिमान् कोऽप्यस्ति ? यो मेरुशृङ्गस्थं विष्णुतपस्विनमन्त्राह्वयति ?” । तत एकः शिष्यो गुर्वाज्ञां प्राप्य तत्र गतः । विष्णुमुनिरपि चतुर्मास केऽतर्कितं तस्यागमन हेतुं पप्रच्छ । तेन यथातथं प्रोक्तं । ततो विष्णुमुनिस्तेन साधुना सह नमुचिराजसंसदि इयाय । नमुचिं विना शेषै राजादिनिर्वन्दितः, नमुचिं प्राह - "हे नूप ! धृतानिग्रहा मुनयोऽधुना क्व यास्यन्ति, तस्मात् स्थित्यर्थ कियतीं भूमिं देहि" । नमुचिना त्रिपदी मिता पृथ्वी दत्ता । तन्निशम्य कोपाटोपवान् विष्णुर्वै क्रियलब्ध्या कृतलक्ष्योजन मिताङ्ग एकं क्रमं पूर्वदिश्यन्यं | चापरदिशि विन्यस्योवाच - "अरे पापिन् ! तृतीय चरण स्थापन भूमिं क्व ददासि ?" । स जयविह्वलो मौनेन स्थितः । तदा तृतीयक्रमो नमुचेः पृष्ठे निहितः, तेन विधापि रसातलं गतवान् यथा त्रिविक्रमेण बलिरिपू रसातलं क्षिप्तः । तदाऽचला श्रपि चला जज्ञिरे, ग्रहा जयन्त्रान्ता जाताः, इन्द्रादयोऽपि इदं किं ?” इति संभ्रान्ता अवधिज्ञानात्तन्निमित्तं ज्ञात्वा वासवो विष्णुमुनेः क्रोधोपशान्तये गन्धर्वान् गीतज्ञान् For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy