SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठिनोचे–“कस्मात् ?” । तयोचे–“मद्वन्धुनिस्ते बहवो निष्पादिताः सन्ति” । ततः श्रेष्ठिना तथा कृतं। तयाऽऽनाय्यार्पिताः श्रेष्ठिनं सर्वसमदं। ततः श्रेष्ठिना गृहस्वामिनी चक्रे, प्रोक्तं च सर्वेषां-“योऽस्या आज्ञा खमिष्यति तेन मे न प्रयोजनं” । सर्वैरपि तपचः स्वीचक्रे । ततो निश्चिन्तः सन् स्वधर्मकर्मणि| सावधानोऽभूत् । हे शैक्षकाः ! लावार्थ शृणुत-यथा राजगृहं तथा मानुष्यं । यथा धनस्तथा गुरुः ।। यथा वध्वस्तथा विनेयाः । ततो ये पञ्च शालिकणास्ते पञ्चमहाव्रतानि । यथा स्वजनवर्गस्तथा चतुर्विधः सङ्घः । दानं शालिकणानां यत्तन्महाव्रतारोपणं । य उज्जिकासमो महाव्रतं प्राप्योज्जति सोऽत्र परत्र च। ४ मुखी स्यात् । यथा वितीया तथाऽऽजीविकामात्रार्थे तपस्या न विधेया । यथा तृतीयया रदिकया 8 त रक्षितास्तपक्षणीयान्यतिचारेज्यः, रोहिणीवच्च वृद्धि नेयानि पञ्च महाव्रतानि यथा तया कणास्तथेति । तदृष्टान्ताः-कएमरीकादिवत् १, मकर्षिवत् २, आधुनिकवेषधारिवत् ३, मनकवालर्षिवत् ४, गीतमादिवत् ५। एते सम्बन्धस्वामिनः । इत्यं योजना कार्या ॥ शालिकणसंवन्धोऽयं षष्ठाङ्गे गदितो जिनैः। ध्यात्वा व्रते तथा कार्य उपनयोऽस्य मानसे ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्ती चतुर्थस्तम्ले २०४ व्याख्यानम् ॥ ___JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy