SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ॥ एए ॥ उपदेशप्रा. ॐ ष्यामि” । तृतीयया चिन्तितं - " श्वशुरस्य कणानां किमपि प्रयोजनं भविष्यति, ततो रक्षाम्येतान्” इति | विचिन्त्य तया कणा श्ररणसमुजके गोपिताः प्रत्यहं वीक्षते । चतुर्थी विजने गत्वाऽचिन्तयदुद्धिशालिनी - " मम श्वशुरो वाचस्पतिसमानः सर्वजनसमक्षं पश्च शालिकणान् कारणविशेषेणैव प्रदत्तवान्, श्रुत इमान् वर्धयामि” । तयैवं हृद्यनुध्याय प्रेषितास्ते पितुर्गृहे, भ्रातृणां चादिष्टं - "निजकणा इवेमे कणाः सुक्षेत्रे उप्याः " । तस्या गिरा बन्धुजिस्तथा कृतं, घनागमे प्राप्ते ते पञ्च कणा उप्ताः । ततः--- Jain Education International 2010_0 स्तम्बी नूय गता वृद्धिं शालयः कणशालिनः । प्रस्थस्तेषामनूदेकः प्रथमे वत्सरे ततः ॥ १ ॥ द्वितीये त्वाढकोsने के जोणा वर्षे तृतीयके । खारिशतानि तुर्ये तु पव्यलक्षाणि पञ्चमे ॥ २ ॥ स्तंज. १४ श्रथान्यस्मिन् दिने श्रेष्ठी स्वजना निमन्त्र्य पूर्वरीत्या वधूः समाहूयादौ ज्येष्ठामर्थयते स्म - " वत्से ! | मम शालिकणानर्पय पञ्च" । तदाकर्ण्य तथा गृहमध्यादानीय समर्पिताः पञ्च कणाः । तान् दृष्ट्वाऽवोचत्" वत्से ! नैते प्राग्दत्तशालयः” । तया प्रोचे - " तात ! ते प्रोज्जिताः” । तछ्रुत्वा रुष्टः श्रेष्ठ जजम्प सर्व|समक्षं - "नया पापयाऽयुक्तं कृतं यन्मे दत्तास्त्यक्ताः, तस्मादस्यास्त्यागसंभवं उगणादिपरित्यागकर्म जवतु" । ततो द्वितीया याचिता- " वत्से ! तान् कणानर्पय ममेदानीं ” । तयोचे - "नहिता मया ” । ततः ॥ ५ए ॥ श्रेष्ठिनोचे - "पचनादिष्वेषा जवतु" । तृतीयां याचते स्म । तयाऽऽनीयोचे - "गृह्येतां गुप्ताः कृता श्यन्ति | दिनानि” । ततः सा कोशरक्षणे कृता । चतुर्थी याचिता । तयोचे - “ शकटान्यर्पय, यत आनीयन्ते” । For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy