________________
सूत्रं गणधरा एव प्रथ्नन्त्येते महाधियः । दिशन्ति केवलानेव प्रायोऽर्धास्तीर्थपाः पुनः ॥ ३॥ * नवरं जव्योपकाराय सूत्रं गणेशा रचयन्ति । यथा कश्चिन्नरः सहकारारूढोऽधस्थानामुपकाराय फलानां
वृष्टिं कुरुते, तदा केचन पतन्ति तानि पटेन गृह्णन्ति, ततः स्वमन्याँश्च प्रीणयन्ति, तथैव जिना ज्ञानकपद्मशिरःस्थिता जव्यहितायार्थान् वर्षन्ति, तन्मध्ये किञ्चिगणेशा धिषणापटेन गृह्णन्ति, रचितैस्तैरात्मानं पराँश्चानुगृह्णन्ति । यतः- यथा फलानि व्यस्तानि न सर्वानुपकुर्वते । कृतार्था न तथैवार्थाः स्युः सूत्ररचनां विना ॥१॥ IM श्रथ समवसरणे प्रनोः कति रूपाणि नवन्तीत्याह| मूलरूपं प्रनोः प्राच्यामन्यत्रिदिनु नाकिनः । तन्वन्ति जगवत्तुष्टयं तन्महिम्नैव तद्रुवम् ॥ १॥
स्पष्टः । नवरं शेषदिक्कु अर्हदिम्बानि स्वर्गिणो रचयन्ति, परं जना अकृत्रिमं कृत्रिमं वा न जानन्ति | मूलस्वरूपानिन्नत्वं न स्यादिति । तथा तानि कृत्रिमान्यपि जिनतुट्यबिम्बानि जिनप्रजावेणैव जवन्ति, अन्यथा सर्वे सुराः संजूयापि जिनाङ्गुष्ठप्रमितं रूपं सर्वशक्तितोऽपि कर्तुं न क्षमाः। श्राहुश्च
यैः शान्तरागरुचिनिः परमाणुनिस्त्वं, निर्मापितस्विन्नुवनैकलखामजूत।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ॥ १॥ अनुरूपवर्णनमावश्यकनियुक्त्यामपि कृतं । तथाहि-वाचामगोचरादईतां स्वरूपादनन्तगुणहीनं गण-IR १ गणधरानित्यर्थः ।
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org