SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 व्यन्तरा भूतलभूमेः सपादकोशोचं स्वर्णरत्नमणिमयं पीठं रचयन्ति । तत्र पृथ्वीतो दशसहस्र सोपानैः प्राप्यं रूप्यमयं वप्रं देमकपिशीर्षाढ्यं जुवनेशाः कुर्वते । तच्चैकैकं सोपानमेकहस्तपृथूचितं । भूमेः सपाद - क्रोशस्तेषां समुन्नयः । रौप्यवप्रस्य नित्तिः पञ्चशतधनुरुचिता स्यात्, तथा त्रयस्त्रिंशधनुर्युक्तवात्रिंशदङ्गुलैर्मिता पृथुला स्यात् । तत्र वप्रे पाञ्चालिकाष्टमङ्गलान्वितानि चत्वारि द्वाराणि रचयन्ति, वप्रस्य कोण कोणे वापीश्च । तत्र प्राच्ये घारे द्वारपालस्तुम्बुरुसुरः, दाक्षिणात्ये खट्टाङ्गी, पश्चिमे कपालिः, उत्तरे जटामुकुटधारी स्यात् । श्राद्यवप्रस्य मध्ये समंततः पञ्चाशधनुर्विस्तृतः प्रतरः समा भूमिश्च भवेत् । श्रत्र सुर| नरयानानि तिष्ठन्ति । ततः प्रतरसंपूतौं द्वितीयस्वर्णवप्रस्य रत्नकपिशीर्षकालंकृतस्य सोपानानि पञ्चसहस्राणि तन्वन्ति, तैस्तत्प्राप्यते । वप्रस्य नित्तिचतुर्घारा दिमानं पूर्ववज्ज्ञेयं । तत्र पूर्वस्यां द्वारेशे अजयङ्कराज्ये घे श्वेतवर्णे जयादेव्यौ स्यातां याम्यधारे रक्तवर्णे विजयाख्ये देव्यौ हस्तन्यस्ताङ्कुशे, पश्चिमायां पीते पाशधरे जिते देव्यौ, उदीच्यामपराजिते नीले मकरकरे स्यातां । पञ्चाशधनुर्मानः प्रतरः । अत्र तिर्यञ्चः सिंहव्याघ्रमृगादयस्तिष्ठन्ति । अत्रेशानकोणे देवच्छन्दो भवति । व्याख्यानोत्तरकाले सुरसेवितः स्वामी तत्राध्यास्ते । तत ऊर्ध्व पञ्चसोपानसहस्रातिक्रमे पूर्ववनियुच्चत्वधारादिमानयुक्तं रत्नम - यमणिकपिशीर्षकशालिनं वप्रं वैमानिकाः कुर्युः । छात्र पूर्वस्यां घारेशः सोमो वैमानिकसुरः, याम्यां दमपाणिर्यमो गौराङ्गो व्यन्तरामरः, प्रतीच्यां रक्तः पाशनृज्ज्योतिष्को वरुणः, उत्तरस्यां द्वारपालो धनदो जुवनपतिसुरो गदाहस्तः श्यामाङ्गो जवति । रत्नवप्रस्य मध्ये पीठं समजुतलं षड्धनुःशतानि एकं For Private & Personal Use Only www.jainelibrary.org
SR No.600036
Book TitleUpdesh Prasad Part_3
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages512
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy