________________
1 इति । तयोः स्वरूपं राजा श्रुत्वा-"कुमारो बध्वा विवाहयितव्यः, सिंहश्च वैविध्यः' इति विचिन्त्य सकोपस्तत्रागतः।राजा तौ व्याघ्रादिभिः सेवितक्रमौ 'जक्त्यैव भाष्यौ' इति ध्यायन् चाटुवाक्यैः | शब्दितवान् , परं दृढप्रतिज्ञौ नोचतुः, केवलज्ञानं मासोपवासान्ते प्राप्य सुरासुरनमस्कृतौ मुक्तिं गतौ । अथ राजाऽवक्-“हे मित्रन योजनशतादूर्ध्व यास्यामि तव निश्चयः। श्रसङ्ख्ययोजनैमित्र मां मुक्त्वा किमगाः शिवम् ॥ १॥" इति राजा विलपन् स्वपुरं गतः। वरं तत्याज यः प्राणान्न पुनः स्वीकृतं व्रतम् । स सिंह श्व सेवध्वं जना दिग्विरतौ रतिम् ॥ १॥
॥ इत्युपदेशप्रासादेऽष्टमस्तम्ले दशोत्तरशततमं व्याख्यानम् ॥ ११० ॥
॥ श्रथैकादशोत्तरशततमं व्याख्यानम् १११ ॥
श्रौतस्य पञ्चातिचारानाहस्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्नागव्यतिक्रमाः। क्षेत्रवृधिश्च पञ्चेति स्मृता दिग्विरतिव्रते ॥१॥ स्मृतेरन्तर्धानं-विध्वंसः, कस्यचित् पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनावसरे व्याकुलत्वादिना । किं शतं पञ्चाशघा प्रमाणं ?' इति संदेहे पञ्चाशत्रुपरि गमने जङ्ग एव । अयं चातिचारः सर्वव्रतसाधा-1 रणोऽपि पञ्चसङ्ख्यापूरणार्थमात्रमुपात्तस्तस्मात् पुनः पुनव्रतं स्मर्त्तव्यं, स्मृतिमूर्ख हि सर्वमनुष्ठानं, निय-2
___Jain Education International 2010_8
For Private Personal use only
www.jainelibrary.org