________________
सा पङ्गनरस्वरेण मोहिता तं स्वामित्वेन स्वीचकार । ततः पतिं हन्तुं सा विषाणि सततमन्वेषयामास । अन्यदा वसन्ते गङ्गाजलक्रीमायां सस्त्रीको नृपो गतः। तदा पीतमधुं पतिं वीक्ष्य तया गङ्गाजले राजा प्रवाहितः। ततः स्वेच्चया गायन्तं पङ्गुलं स्कन्धे आरोप्य सा निदा याचते । लोकैः पृष्टा प्राह-"मम | पितृन्यामीदृशः पतिर्दत्तस्तमेव स्कन्धे वहामि"। इतश्च जितशत्रुनृपः प्राप्तकाष्ठवलेन बहिनिःसृतः।। एकस्य तरोस्तले सुप्तः । अथ तत्पुराधीशोऽपुत्रको मृतः । सचिवादिकृतपञ्चदिव्यैर्विनियो विधाय म राजा कृतः। अथान्यदा तत्रैव पुर्या सुकुमालिकापङ्ग समागतौ । तौ सतीत्वगीतान्यां परमां ख्याति गतौ । नृपोऽपि तां ख्याति श्रुत्वा स्वान्तिके तावाजुहाव । राजा तां च तं च प्रत्यनिहाय स्मृतपूर्वावस्थ उवाच-हे स्त्रि त्वमिमं वीनत्सरूपं पङ्गं कथं वहसि । तया नणितं-पित्रादिदत्तः पतिः सतीनिरिन्प्रत्वेन मान्यः । श्रुत्वा नृपः प्राह
“पानणं वाहुरुहिरं उरुमंसं च खाईछ । पई गङ्गादहन्छोटु साहु साहु पश्चए ॥१॥" ततो नयी नृपस्तौ अवध्यौ मत्वा जनपदान्निसियामास । स्वयं तु सर्वस्त्रीव्रतं खखौ ।
दृष्ट्वा चरित्रं सुकुमालिकाया, नूपस्ततोऽधिपये विरक्तः।। लावारिजेता जितशत्रुनेता, श्राह्वां स्वकीयामकरोद्ययार्थाम् ॥ १॥ ॥ इत्युपदेशप्रासादे सप्तमस्तंने त्रिनवतितमं व्याख्यानम् ॥ ए३ ॥
Jain Education International 20
For Private & Personal use only
www.jainelibrary.org