________________
ROGRESSOURCES
5 नवं नवं खड्गं गृहीत्वा पुनर्यावद्गले स्थापयति, तावत्तेऽतर्धानं प्रापतुः । नृपो विस्मितो दध्यौ–'अहो
किमिदं जातं ? । इतश्च ते पुष्पवृष्टिं विधाय प्रोचतुः सर्ववृत्तं 'युष्मन्महिम्नाऽस्मदीयं मिथ्यात्वं गतं' इति प्रशस्य स्वर्ग गत्वा इंजसत्तायामपि तथैव प्रशशंसतुः । अथ नृपः क्रमादादर्शनुवने स्वपितृवत्केवल-11 ज्ञानं प्राप्य मुक्तिं जगामेति । विशेषार्थिना शजयमाहात्म्यमवलोक्य, मया तु यथा श्रुतं तथा लि. खितमस्ति इति ।
पाक्षिकादिकतिथौ क्रियमाणः, सौख्यमावदति पौषधधर्मः। नानिपुत्रज श्वात्र परत्र, संचिनोति पुरूषोऽनघकांतिम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने एकशताधिकविपंचाशत्तमं व्याख्यानम् ॥ १५५ ॥
॥ शतोत्तरत्रिपंचाशत्तमं व्याख्यानम् ॥ १५३ ॥
अथ पौषधे प्रतिक्रमणं कार्यमित्याहपर्यायाः संति ये चाष्टौ, निर्धार्य सूरिनिः कृताः। प्रतिक्रमणशब्दस्य, कार्य तत्पौषधे मुदा ॥ १ ॥
प्रतिक्रमणं प्रतीपं क्रमणं पापतः पश्चादपसरणं । यतः"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं नूयः, प्रतिक्रमणमुच्यते” ॥१॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org