SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ A NS-3-4-5 उपदेशप्रा. परिधाय रमते । श्रन्यास्तु तदाझया शान्तवेषा एव तिष्ठन्ति । एवं तासां कालो याति । तस्मिन् स्वर्ण- स्तन. ५ लाकारे इतस्ततो गते ताः शृङ्गारादि मुदा व्यधुः । स पुनरागतश्च ताः तामयामास । ततः सोऽविश्वासपरः स्त्रीषु ईयॆया पूर्णः कस्यापि गृहे जोजनाद्यर्थमपि न प्रेषयति । तासां रक्षणाय कदापि एकस्तम्लावासंद स्वगृहकारं नामुचत् जूतोऽधिष्ठानस्थानमिव । यथा___ हत्यादग्ध स्वागचनोक्तुं कस्यापि नौकसि । स निजेऽपि गृहे कञ्चिन्न कदाचिदनोजयत् ॥१॥ | कदाचित्सुहृदा वलात्कारेण नोजनाय स्वगृहे नीतस्तदाऽसौ विषा गुप्तिगृहे दिप्तमिवात्मानं मेने । तावत्तस्य स्त्रियो निर्व्यञ्जनं ज्ञात्वा हृष्टाः कृतस्नानविलेपनाः परिहितप्रवरवस्त्रा विहितसर्वाङ्गभूषणाः प्रीत्या ग यावता दर्पणेषु स्वं पश्यन्त्यस्तस्थुः, तावता तगृहाधीशः सुवर्णकारः पिशाच श्व क्रूरदृष्ट्या विलोकयन् । स्वगृहधारमागात् । स तत्स्वरूपदर्शनात्तासामुपरि क्रुधः । तासां मध्यादेकां तथा जघान यथा सा यमातिथितां प्रपेदे। तदानीं सर्वासामपि स्त्रीणां समकालं जयमुत्पन्नं, एष पापात्माऽस्मानप्येवं हनिष्यति । ततस्ताजिश्चिन्तितं-“वयमेनं प्रियं मारयामः" । ततस्ताः स्त्रियस्तं दर्पणैरमारयन् । तत एकोनपंचशतदपणैर्हतो मृतः स्वर्णकारः। ततस्ताः स्त्रियः पश्चात्तापेन गृहं प्रज्वाय तेन साई ज्वलिताः।ततस्ता एकोना पञ्चशती पश्चात्तापेनाकामनिर्जरया च मृत्वा कस्मिंश्चिदुर्गे तस्करकुले तस्करत्वेनोत्पन्नाः । क्रमेण ते I सर्वेऽपि लोकलुएटनतत्परा लुण्टाका जाताः । या पूर्वहता योपित्सा कुत्रचिद्रामे कस्यापि रोरविप्रस्य पुत्रत्वेनोदपद्यत । ततः पूर्णकाले जातः। क्रमेण पञ्चवर्षीयो जातः। पञ्चवर्षाणि यावत्स्वर्णकारजीवस्तिर्यग्योनौ ॥ १ ॥ ACROCES ____JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy