________________
उपदेशप्रा.
॥११॥
समागात् इति ज्ञायते, स क्ष्यं गृहीत्वा गतः” । ततः कुपितो नृपो दशमुकुटव नृपैः सह सबलोऽवती || प्राप । ततो योमिथः समरोऽजूत । तत उदायनेन शिलीमुखैः प्रद्योतः कुंजरापातयित्वा हस्तेन धृत्वा बादः, तस्य ललाटपट्टे 'मम दासीपतिः' इत्यक्षरावली खिलेख तप्तलोहशलाकया, गुप्तिगृहे चापित् । तत उदायनः प्रद्योतस्य गृह जिनालये गतः। श्रीजिनवरं नत्वा स्तुत्वा चोपादातुमुपास्त, सा स्थानतो न चचाख । नृपतिर्जगी-'हे नाथ ! मया कोऽपराधः कृतः, यत्परमेश्वरो मया सह नैति' । तदानीं तदधिठायकः प्राह-'हे नृप ! तव पत्तनं. पांशुवृष्ट्या स्थलं जावि, ततो नाहं तत्र समेष्यामि, त्वं मा शोचीः' ।। ततः स नृपोऽवंतिदेशान्यवर्तत । मार्गस्यांतराले चतुर्मास समागतं । राजा तत्रैव शिविरं न्यधात् ।। तत्र दशपुरं जातं । अन्यदा पर्दूपणापर्वण्युदायने पौषधिके सूदः प्रद्योतनमपृचत्-'नृप ! किमद्य लोदयसे ?' तन्मृत्वाऽवंतीशः क्षोनादिति दयौ–'अहो ! अद्य पृष्टं तत्किं कारणं ?' इति मत्वा सूपकार-| मपृच्छत्-'हे सूद ! अद्य प्रश्नस्य हेतुं वद' । 'नृप ! अद्य पऍपणोत्सवः, मम स्वामी उपोषितोऽस्ति, अत-18 स्त्वदर्थ रसवतीं करिष्यामि' । इति श्रुत्वा नृपः स्माह-'त्वया पर्वदिनोक्तेन वरं कृतं, ममाप्युपवासो
वास्तु' । सूदोऽपि उदायनायाख्यत् , स दध्यो-'अहो ! अस्मिन् कारागारे सति मम पयूपणा साध्वी न है स्यात्' । एवमवधार्य तं निष्कास्य क्षमयामास । तस्य जालांकगोपनं स्वर्णरत्नमणिपट्टबंधेन विदधे। ततोऽ
तिदेशं ददौ । वर्षाकाले व्यतिक्रांते उदायनः स्वपुरीं प्राप । उदायनो मूलप्रतिमायै घादश ग्रामसह-| नाणि पूजार्थं प्रददौ । ततः प्रजावतीदेव्याझया तां नूतनां मूर्तिमपूजयत् । अन्यदा स्वपौषधागारे
॥११॥
Jain Education International 2010_NCall
For Private & Personal use only
www.jainelibrary.org