________________
॥ पंचचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४५ ॥ अथ नवमसामायिकव्रतकथनानंतरं देशावकाशिकव्रतमुच्यतेदिग्व्रते परिमाणं यत् , तस्य संक्षेपणं पुनः। दिने रात्रौ च देशाव-काशिकव्रतमुच्यते ॥ १॥ स्पष्टः। प्रथमगुणवते यद्दशस्वपि दिक्कु गमनपरिमाणं, तस्य दिवारात्रौ चोपखरणत्वात्प्रहरादौ यत्सं-1 पणं तद्देशावकाशोऽवस्थानमत्रास्तीति देशावकाशिकं । पूर्व दिग्वते यावजीवं संवत्सरादिकं वा योजनशतादीनि मुत्कलीकृतानि, अत्र पुनस्तन्मध्यादपसारयति मुहूर्त्तदिवसप्रहराद्यजीष्टकालं यावत् गृहह-18 दृशय्यादिसारंजैकदेशावस्थानं, तेन निवृत्तं देशावकाशिकं । दृग्विषाहेर्दादशयोजनानि दृग्विषयः विद्यावता न्यूनीकृतो योजनमात्रं स्थितः, यथा वा शरीरस्थं विषमगदवलेनांगुष्ट्यां स्थाप्यते । एवं विवे|किना यावत्कथिकदिग्वतादिने दिनेऽपसारयितव्यं । अनेन व्रतेन सर्वव्रतनियमानां प्रतिदिनं संक्षेपः कार्यः । अत एव पूर्वोक्त 'सच्चित्तदवेति' गायोक्तनियमान् संप्रति प्रातः श्राना गृहंति सायं च संकोचयति । प्रत्याख्यानप्रांते 'देसावगासियं पच्चरकामि' इत्यादिना गुरुसमदं प्रतिपद्यते । उक्तं च"देसावगासियं पुण, दिसिपरिमाणस्स निच्च संखेवो । श्रहवा सबवयाएं, संखेवो पदिणं जाउँ” ॥१॥
___ वाद्यव्रतसंक्षेपप्रकारस्त्वयं-यतः"पुढविदगगणिमारुय, वणस्सइतसेसु पाणेसु । श्रारंजमेगसो सब सो य सत्तीए वजिजा" ॥१॥
__JainEducation International 2010
www.jainelibrary.org
For Private & Personal Use Only