________________
Jain Education International 2010
“सर्वकर्मप्रकृतीनां, विपाकास्तान्विचिन्वतः । विपाकविचयं नाम, धर्मध्यानं प्रवर्त्तते” ॥ १ ॥ इति विपाक विचयस्तृतीयो नेदः ॥
अथ संस्थान विचयश्चतुर्थः तच्चतुर्दशरज्यात्मकसंस्थानचिंतनं - ऊर्द्धाधस्तिर्यग्लोकस्वरूपचिंतनं, तत्स्वरूपं विशेषेण लोकभावनातो वाच्यं । तथा सर्वलोकस्थानेषु जीवेनासंस्पृष्टं जन्मादिनिस्तन्नास्ति इति | चिंतनं संस्थानविचयश्चतुर्थभेदः । ४ । एतधर्मध्यानं चतुर्थगुणस्थानादारत्र्य सप्तमगुणस्थानं यावज्ज्ञेयं तथा कष्टे प्राप्तेऽपि यो धर्मध्यानं चंद्रावतंसकवन्न मुंचति, तस्यैव सामायिक जयति । तथाहि
विशालापुर्वी चंद्रावतंसकनृपो राज्यं परमधर्मनैष्ठिकः करोति । सोऽन्यदा चतुर्दशी दिने स्वसौधमध्ये कायोत्सर्गेण तस्थौ, मनस्येवमनिग्रहं जग्राह - 'यावदयं प्रदीपः प्रज्वलिप्यति, तावत्कायोत्सर्ग न पारयि प्यामि' । स्वामिनक्त्या दास्या पुनः पुनरपि तैलेन सिक्तो दीपो न विध्यातः । राजा रात्रौ चतुरोऽपि यामान् धर्मध्यानं दध्यौ किदृशं ? यतः
“सूत्रार्थसाधनमहाव्रतधारणैश्च, बंधप्रमोक्षगमनागमहेतुचिंता ।
पंचेंद्रियव्यपगमश्च दया च नूते, ध्यानं तु धर्म्यमिति तत्प्रवदंति तज्ज्ञाः ॥ १ ॥ इति शुध्यानपरः 'जावनियमं पकुवासामि' इति पाठे यच्चिंतितं, तत्पर्यतं कायोत्सर्ग न पारयामास । वावुद्गते दीपे विध्याते च स पारितः । ततो रुधिरेण नृतचरणो गिरिशृंगमिव त्रुटित्वा भूमौ पपात । शुजध्यानेन सुगतिं प्राप । यतः
For Private & Personal Use Only
www.jainelibrary.org