________________
स्तंज.ए
उपदेशप्रा. माघातादि । प्रकटमपि विधा-कुलाचारेण गृहिणामारंजादि म्लेलादीनां हिंसादि चेति, निर्मकत्वादिना तु
यतिवेशस्य हिंसादि, तत्प्रकटकरणेऽनंतसंसारित्वं, प्रवचनोडाहकारणत्वात् , कुलाचारेण पुनः स्फुटे स्तोकः
कर्मबंधो गोप्ये तु तीव्रतरोऽसत्यमयत्वात् । परवंचनादौ महत्पापं, अत्रार्थे विसेमिरासंबंधो यथाA "विशालायां नंदो राजा, विजयपालसुतः, बहुश्रुतनामामात्यः, जानुमती राही । राजा तदासक्तः सन्नायामपि तां पार्वे स्थापयति । एकदा मंत्रिणा विज्ञप्तं-'देव ! राझ्याः पार्श्वे रक्षणमनुचितं, यतः"अत्यासन्ना विनाशाय, दूरस्था न फलप्रदाः । सेव्या मध्यमानावेन, राजा वह्निर्गुरुः स्त्रियः" ॥१॥ श्रतो राझीरूपं चित्रस्थं कारयित्वा पार्श्वे रन, तेन तथा कृतं, यतः किराते
“स किं सखा साधु न शास्ति योऽधिपं, हितान्न यः संशृणुते स किं प्रतुः।
सदानुकूलेषु हि कुर्वते रति, नृपेष्वमात्येषु च सर्वसंपदः" ॥१॥ तच्चित्रं स्वगुरोः शारदानंदनस्य दर्शितं, तेन स्वविइताशापनायोक्तं-'वामोरुप्रदेशे तिलोऽस्ति स न कृत' । राजा तं स्वनार्यारमणं संकटग्य सचिवमाह-'श्रयं मार्य एव.' विमृश्यकारी स गृहे रहस्तमस्थापयत् । अन्यदा राजपुत्र आखेटके सूकरमनुव्रजन दूरं गतः, सायं सरसि जलं पीत्वा व्याघ्रजीत्या तरौ चटितः, तपरि स्थकवानरस्त वृक्षवासिव्यंतराधिष्ठितो मनुष्यवाचोवाच-'नोः कुमार! अधो व्याघ्रोऽस्ति' इत्युक्त्वा तेनांके पूर्व शायितो, व्याघ्रण सुबहु याचितो न दत्तः । पश्चात्तत्संगे कपिः सुप्तः, व्याघ्रस्तमयाचत-'लोः कुमार! वानरस्य को विश्वासः, यतः
--
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org