________________
उपदेशप्रा.
॥ अष्टाविंशत्युत्तरशततमं व्याख्यानम् ॥ १२ ॥ अथ पुनर्मायाकरणाकरणयोः फलमाहकूटस्य जट्पनं मोच्यं, राज्ञां पुरो विशेषतः । दलात्कीर्तिश्रियां हानि-स्तस्मात्रामः परित्यजेत् ॥ १॥
गृहस्थ इति शेषः । क्रयादानदानादौ कूटजट्पनं त्याज्यं । ननु गुह्यं परेषां न प्रकाश्यं, यतः"स्वकीयं दारमाहारं, सुकृतं प्रविणं गुणम् । पुष्कर्म मर्म मंत्रं च, परेषां न प्रकाशयेत् ॥१॥
अत्र श्लोके सत्यनापणं निषिछ, तत्कथं कूटजरूपनं नवनिनिषिधं ? उच्यते-'केनाप्यायुर्वित्तं गृहविमित्यादिकं पृष्टं (सत्) कूटं न वदेत् , किंतु "किमनेन प्रश्नेन ?" इत्यादिलाषासमित्या प्रत्युत्तरयेत् । तथा राज्ञां पुरोऽये विशेषतस्तत्त्याज्यं । उपलक्षणाद् गुर्वादिप्रश्ने तु यथास्थितमेव वाच्यं, यतः-- __"सत्यं मित्रैः प्रियं स्त्रीनि-रलीकं मधुरं विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना सह ॥१॥ | श्रूयते हि-"दिट्टयां श्रेष्ठी महणसिंहोऽकूटवादी शुधव्यवसायी, इति भ्लाघां श्रुत्वा परीक्षार्थ सुरत्राणेन तव कियन्मितं धनमस्ति ?' इति पृष्टो 'लेख्यकं वीदय विज्ञपयिष्यामि' इत्युक्त्वा सर्व नामकं सम्यक् कृत्वा राज्ञोऽग्रे-चतुरशीतिटकसहस्रं मद्गृहे संनवि नोऽनुमानेनेत्यूचे । 'मया स्तोकं श्रुतमनेन तु वहूक्तं' इति सत्योक्तिहृष्टो नृपस्तं कोशाध्यदं चक्र इति"। तथा कूटजट्पनात् किं स्यात् ?-दंनः कपटविशेपस्ततश्च कीर्तिश्रियां हानिरजावः, अतः श्राधस्तईनं परित्यजेदित्यर्थः । अत्रार्थे धर्मबुधिज्ञातं, तच्चेदं
१ अस्माकम्.
॥ ११॥
Jain Education International 2017
For Private & Personal use only
www.jainelibrary.org