________________
इति देशनां निशम्य नियमग्रहणं कृत्वा श्रेष्ठी स्वधानि गतः । श्रर्जुनोऽपि संवेगतस्तषधपापहननाय विजुपादमूखे दीक्षां ललौ । तस्मिन्नेव दिने स ईदृशमजिग्रहमग्रहीत् - " हे प्रजो ! युष्मदाज्ञयाहं सदैव षष्ठेन तपः कर्मणात्मानं जावयन् विचरामि " । स्वामिनोक्तं- ' यथारुचि कुरु' । साधुस्तचैव विचरति । स पारणार्थे निशामटति । तं वीक्ष्य लोका एवं कथयन्ति - " अनेन मे पिता निहतः, अनेन मे माता निहता, एवं जाता जगिनी जार्यो ” इत्युक्त्वा ते जनास्तं मुनिमाक्रोशयन्ति, तामयन्ति, हेलयन्ति, निन्दन्ति । तेषामुपरि मनसाध्यष्यमाणः सर्वोपसर्गं सम्यक् सहते । एवं कदाचित् षष्ठपारण के जक्तादिकं लभते तदन्नं स्वामिने निवेद्यामूर्जितस्तदश्नाति । एवमर्जुनमाला कारमुनेरुदारेण तपःकर्मणात्मानं जावयतो बहुप्रतिपूर्णा षण्मासी व्यतिक्रान्ता । प्रान्तेऽर्धमासिक्या संलेखनयाऽन्तकृत्केवली जुत्वाऽनन्तचतुष्कां कितमव्ययपदमाससाद ।
प्रतिदिवसं सप्त जनान् हत्वा संप्राप्य वीर जिनदी क्षाम् । कृत्वा निग्रहमसमं षण्मास्या सोऽन्तकृतातः १
Jain Education Internatial 10_05
सुदर्शनोऽपि स्वर्गसुखं प्राप ।
इत्यागमश्रवण सादर चित्तवृत्तेर्वृत्तं निशम्य वणिजश्च सुदर्शनस्य ।
जव्या जवांबु निधितारणनौ निजायां धर्मश्रुतौ कुरुत सन्ततमेव यत्नं ॥ १ ॥ अन्तकृत सूत्रेोऽयम् ।
॥ इत्युपदेशप्रासादे प्रथमस्तंजे नवमं व्याख्यानम् ॥
For Private & Personal Use Only
www.jainelibrary.org