SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Jain Education Internation एकेन सिंहनादेन सर्वे श्वापदाः प्रणश्यन्ति । किं च 1 तावजः प्रस्रुतदानगलः, करोति कालांबुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लांगूल विस्फोटरवं शृणोति ॥ १ ॥ मम जाग्राद्या वाद्ययं समुपस्थितः । दुर्निदे कुधितस्यान्नलाज श्चिन्तातिगो यथा ॥ १ ॥ अथ यामि तस्य पार्श्वे । यमस्य मालवो दूरे नास्ति । नापि चक्रिणोऽजेयं किमपि । सुधियां किमज्ञेयं । कष्पपादपानां किमदेयं । तत्पराक्रमं पश्यामि । साहित्यतर्कव्याकरण छन्दोऽलंकारादिशास्त्रेषु ममातीव दक्षत्वं विद्यते । क्व शास्त्रे मम श्रमो नास्ति ? । अमुं जयामि । सर्वज्ञामंवरं दूरीकरोमि । ततोऽलंकारदेहकान्तिविवर्धनार्थं विरचितषादश तिलकः स्वर्णयज्ञोपवीतधरः कृतस्फारवस्त्राडंबरः पञ्चशतलात्रैः पठ्यमान विरुदश्चलितः । विरुदानि यथा - भारती कंठाभरण ज्ञातसर्वपुराण वा दिकदली कृपाण वादितमोजाए वादिघरट्टमुर सर्वशास्त्राधार प्रत्यक्ष परमेश्वर वादिधूकनास्कर वादिसमुद्रागस्ते वादिशखजदीपक वा दिज्वरधन्वन्तरे सरस्वती लब्धप्रसाद शिष्यीकृतबृहस्पते इत्यादीनि बिरुदानि शृण्वन्नग्रे गनुन्नशोकादीनाजन्मबद्धवैरं मुक्त्वा स्थितान् श्वापदांश्च वीक्ष्य प्राह- 'अहो महान् धूर्तो ज्ञेयः । तदा छात्राः प्रादुः "हे पूज्य ! वयं प्रत्यहं तव प्रसादेन शतकोटिवादिजये समर्थाः, किं पुनरस्य १ । एक एव छात्र एनं निग्रहिष्यति” । तछ्रुत्वा स शंकितो जिनपुरः सोपान स्थितो दध्यौ विस्मितः - किमयं ब्रह्मा ? किं वेश्वरः १ किं विष्णुः ? किं सूर्यः १ । For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy