________________
सुतानामशनाय पायसस्थालान्यार्पयत् । ततो लोक्तुं प्रवृत्तानामात्मजानामुपरि नृपः कुत्दामसारमेयानमोचयत् । तदा श्रेणिकं विनाऽन्ये कुमाराः खरंटितहस्ता आपतत्सु श्वसु क्षिप्रमुत्तस्थुः । श्रेणिकस्तु सहोदराणां लाजनानि है। शुनामनिमुखं चिप स्वयं च बुजुजे । राजा तद्वृत्तं निशम्य तेषां प्रशंसां चकार, श्रेणिकं च स्माह- धिक् त्वां, यवृत्तिः सह जुक्तं' । पुनः परीक्षायै खजका दिनृतमोदककरमकान् मुजितान् जलकोरककुंलांश्चाङ्गजानां दत्वा 8 पाह-'नवनिरुदूघटनं विना पक्वान्नं लोज्यं जलं च पेय' । विजने तान् बुनुदितान् वीदय श्रेणिकः करंमकान धूनयित्वा धूनयित्वा शलाकान्तरनिर्गतचूर्णेन कुंजवेष्टितवस्त्राणि मर्दयित्वा मर्दयित्वा तजलितजलेन च कुमाराणां तृप्तिं चकार ।। तबृत्वा राजाऽवक्-'यस्यैवंविधा धीः स रंक एव खजकचूर्णकरणात्' । एकदा राज्ञ एव गृहे प्रज्वलितेऽन्ये मणिमाणि-18 क्यादीन जगृहुः । श्रेणिकस्तु प्रश्रमं महीपतेर्जयचिह्नं नंगा जग्राह । तदा प्रसेनजित् तस्य जंजासार इत्यनिधां ददौ ।।। ततः श्रेणिकं विनाऽन्येषां पृथक् पृथक् देशान् ददौ । तदपमानमासाद्य स्वपितुः पुरान्निर्गत्य क्रमेण वेनातटपत्तनं प्राप । तत्र प्रविश्य लाख्यश्रेष्ठिनो हट्टे प्रथममुपाविशत् । श्रेष्ठी तन्माहात्म्यावहुलधनमार्जयत् । तदा श्रेष्ट्याह-हे पुण्यनिधे! श्रद्य त्वं कस्यातिथिर्जवितासि ? । स सस्मितं स्माह
युष्माकमेवेति निशम्य तस्मादचिन्तयनम इदं हृदन्तः । स्वप्नेऽद्य योऽदर्शि मया सुताया, योग्यो वरो ह्येष समागतोऽयम् ॥ १ ॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org