________________
स्तंभ.
५
॥ १४० ॥
स्वनिन्दा श्रुत्वा षंढः शिरः संज्ञया तान् 'मया तु न हतः' इत्यज्ञापयत् । ततो लोकैस्तौ नृपाग्रे नीतौ । तदा सचिवेनोक्तं- 'दयोर्मध्ये यस्तप्तायोगोलकं जिह्वया लेढि स सत्यप्रतिज्ञः' । तदा वृषः संज्ञया उमित्युक्त्वा सद्यो नृपकारिततष्ठायोगोलकं लेढि स्म । रामा तु श्याममुखी बभूव । नृपेण नगराहूरीकृता ।
श्रेष्ठतु ( बलीवर्दस्तु) दुःखसंकुलेऽपि त्रिधा स्वमहिंसाधर्म न मनाग मुमोच । विवेकवन्तं वृष चकार यो जैनदासः श्रुतिवाचकेन । सहापराधां वनितामवेक्ष्य दध्यौ न हिंसां मनसा मनाकु सः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुप देशप्रासादग्रन्थस्य वृत्तौ चतुःषष्टितमं व्याख्यानम् ॥ ६४ ॥
॥ श्रथ पञ्चषष्टितमं व्याख्यानम् ॥ ६५ ॥
कुलमायातां हिंसां मुञ्चति, तं स्तौति
वंशक्रमागतां हिंसामपि त्यजति यो बुधः । स स्याद्धरिवल इव राज्यादिसंपदां पदम् ॥ १ ॥ अत्रार्थे श्लोकोक्तं ज्ञातमिदम् -
काञ्चनपुरे जितारिर्नृपः । तस्य वसन्तश्रीः सुता लावण्यादिरूपाञ्चिताऽभवत् । इतश्चैको हरिबलनामा कैवर्तको नार्थ
Jain Education International 2010 05
For Private & Personal Use Only
व्याख्यान. ६५
॥ १४० ॥
www.jainelibrary.org