________________
स्तंज.
५
॥ १३१ ॥
Jain Education Inter
येन चेति । अस्यानुमतिरप्रतिपिच्छा, अपत्यादिपरिग्रहसद्भावात् । ननु जगवत्यागमे त्रिविधं त्रिविधेन प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तत्कस्मान्नोच्यते ? । उच्यते - तस्या विशेषविषयत्वात् । तथा हि-यः किल प्रव्रज्यां प्रपित्सुरेव यो वा विशेषमन्त्यसमुद्रगतमत्स्यादिमांसं स्थूलहिंसां वा क्वचिदवस्थाविशेषे प्रत्याख्याति स एव त्रिविधत्रिवि धेनेत्यपविषयोऽयं जंगः | बाहुल्येन तु विविधत्रिविधेन । श्रादिग्रहणाद् विविधं द्विविधेनेति द्वितीयो जंगः । द्विविधमेकविधेनेति तृतीयः । एकविधं त्रिधेतिचतुर्थः । एकविधं द्विधेति पंचमः । एकविधमेकविधेनेति षष्ठः । एते च षडू जंगा श्राद्यत्रते प्रोक्ताः । व्रतान्तरेष्वपि षड् प्रष्टव्याः । य श्राद्यत्रते कृता जंगास्ते सप्तगुणीकृत्य मध्ये षट् स्थाप्याः । ततोऽग्रेतनव्रतानां भवन्ति । इत्थं द्वादशं यावज्ज्ञेयाः सर्वेषां मिलने जंगसंख्या इयम्
"तेरस को मिसयाई चुल सिकोडिन बारसयलरका । सगसीइ सहस दोसय सवग्गं ठकनंगी ए ॥ १ ॥ "
अत्र बहु वक्तयं, तत्र्रावकत्रतजंगप्रकरणधर्मरलप्रन्यादिभ्यो ज्ञेयं । अत्र शिष्यः प्राह - ये मुनयो गृहपतिं राजाद्यनियोगेन विना स्थूलप्राणिघात निवृत्तिं कारयन्ति तेषां स्थावरहिंसा नुमतिः दोषः स्यात्, तदा मुनीनां सर्वविरतित्वहानिप्रसंगः। श्राद्धास्तु एवं प्रत्याख्यानं कुर्वन्तः स्वां प्रतिज्ञामतिचरन्ति । कस्माद्धेतोः ? स्थावरास्त्रस्तयोत्पद्यन्ते त्रसाश्च स्थावरत्वेनेत्येवं सति प्रतिज्ञाजंगः स्यात् । यथा नागरिको न हन्तव्य इति प्रतिज्ञा यत्र काले येन कृता, स यद्युद्यानस्थं तदनन्तरं नागरिकं हन्यात्तदा तस्य किं न प्रतिज्ञालोपः ? एवमत्रापि वर्तमाने येन त्रसवध निवृत्तिः कृता, स यदि तमेव त्रसं स्थावरकायप्राप्तं हन्ति, तदा तस्य तलोपः कथं न जवेत् ? एवं प्रत्याख्यानं कुर्वतां कारयतां च प्रतिज्ञालोपः ।
2010_05
For Private & Personal Use Only
व्याख्यान.
६२
॥ १३१ ॥
www.jainelibrary.org