________________
स्तंज.
४
॥ १३० ॥
अत्राह परः - येऽत्र देशान्तरगतदेवदत्तादयो दर्शितास्तेऽत्रास्माकमप्रत्यक्षा श्रपि देशान्तरगतलोकानां केषाञ्चित् प्रत्यक्षा एव सन्ति, तेन तेषां सत्त्वं प्रतीयते । जीवादयस्तु कैश्चिदपि कदापि नोपलभ्यन्ते, तत् कथं तेषां सत्ता निश्चीयते ? इत्यत्रोच्यते - यथा देवदत्तादयः केषां चित्प्रत्यक्षत्वात् सन्तो निश्चीयन्ते तथा जीवादयोऽपि केवलिनां प्रत्यक्षत्वात् किं न सन्तः इति प्रतीयतां । यथा वा परमाण्वो नित्यमप्रत्यक्षा अपि स्वकार्यानुमेयाः स्युस्तथा सर्वत्र ज्ञेयं" । | इत्यादिसिद्धान्तवाक्ययुक्त्या सुबुद्धिप्रधानोक्त्या नृपः प्रतिबुद्धो देशविरतित्वं जग्राह । क्रमेण घावपि प्राप्तप्रब्रज्यौ मुक्तिं प्रापतुः । यदुक्तम्---
जियसत्तू परिबुद्धो सुबुद्धिवयणेण उदयनायंमि । ते दो वि समणसिंहा सिद्धा इकारसंगधरा ॥ १ ॥ दर्शनं सकलबुद्धि निधानं, सप्रबन्ध मिद वर्णितमुच्चैः ।
सर्वमोन हेतुषु मुख्यं, पाठकैस्तदनुयोज्यमुदग्रम् ॥ १ ॥
॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ चतुर्थस्तंने एकषष्टितमं व्याख्यानम् ॥ ६१ ॥ १ उदकज्ञाते ।
॥ समाप्तश्चतुर्थः स्तंभः ॥ ४॥
Jain Education Inter 2010 05
For Private & Personal Use Only
व्याख्यान
६१
॥ १३० ॥
www.jainelibrary.org