________________
स्तंज.
ย
॥ १२५ ॥
साकं निजपुरं जग्मिवान् । काकजंघेन स्वनियमाधिकद्दूरत्वात्तस्य राज्यं न स्वीकृतं । अथ स्वराज्यं कुर्वता तेन निजजात्रा सह निजजार्याया दुश्चरितं विज्ञाय गांभीर्यान्न क्वापि प्रकटितं । यतः -
नाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १ ॥
बहवोऽन्ये जनाः सपरिकरनृपकर्षणाशया पद्मगृहं विदारयितुं कुठारादिघातं दापयन्ति, तदा ते (नृपादयः) प्रत्युत वेदनां प्रापुः । ततस्तेऽनन्यगतिका जना अवन्त्यामेत्य कोकासं स्वस्वामिजीवित निक्षां प्रार्थयामासुः । सोऽपि तत्स्वामिनो दासस्येव सेवाकारितां तान् प्रतिपाद्य सद्यस्तत्पुरं गत्वा तद्भुवनमुन्मुद्य निष्कासयामास । नृपोऽपि पितरमिवाराध्य तं व्यसर्जयत् ।
श्रन्येद्युर्गुरुं नत्वाताच्यां स्वप्राग्वः पृष्टः । सूरिराह - "राजन् ! पूर्वजवे गजपुरेशस्य तवायं जैनविप्रसूत्रधारः । तवसा त्वयाऽनेके प्रासादाः कारिताः । श्रन्यदा एकः कलापात्र जैनसूत्रधारः कुतोऽपि तत्रागतः । तं जात्यादिना | निन्दन् कलामात्सर्यात्त्वद पैशुन्यं चकार । यतः -
कलावान् धनवान् विद्वान् क्रियावान् धन्मानवान् । नृपस्तपस्वी दाता च स्वतुल्यं सहते न हि ॥ १ ॥ ततस्त्वयापि पद् घटिका यावत् कारायां स क्षिप्तः । पश्चात्तेन मोचितः । तदनालोच्य नृपसूत्रधारौ सौधर्मसौख्यं जुक्त्या युवां जाती । कोकासस्य जातिमदाद्दासेरत्थं । मुधा तस्य पड्यटी धरणाद्वयोः पण्मासान् यावद्दुःखं जातं" । इति | ज्ञान्युक्तं श्रुत्वा स्वपुत्रं राज्ये स्थापयित्वा नृपो रथकारेण साकं चरणं खलौ । क्रमेण केवलज्ञानं प्राप्य सिद्धिं जग्मतुः । इति ।
For Private & Personal Use Only
Jain Education International 2010_05
व्याख्यान. ան
।। १२५ ।।
www.jainelibrary.org.