SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ स्तंज 56 ५६ ॥११५॥ %20-45 वादप्रतिपादकानि च अष्टव्यानि । तथा हे सौम्य ! इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं व्याख्यानदमापतिश्रमकादिरूपं वा वैचित्र्यं, तन्न निर्हेतुकमेष्टव्यं, मा प्रापत्सदा जावाजावदोषप्रसंगः । यतः 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्' । यदेव अस्य वैचित्र्यस्य हेतुस्तदेव कर्म ॥ इति । तथा पौराणिका अपि कर्मसिधि प्रतिपद्यन्ते । तथा च ते प्राहुःयथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते। तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥ यत्तत्पुरा कृतं कर्म न स्मरन्तीह मानवाः । तदिदं पांमवज्येष्ठ दैवमित्यनिधीयते ॥५॥ श्रतो मूर्त कर्म प्रतिपत्तव्यं । अमूर्तत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघातौ न स्याताम् । आकाशादिवत् ।। एतत्कर्मणा सह संयोगो जीवस्यानादिको शेयः । यदि सादिः स्यात्तदा मुक्तात्मनामपि कर्मयोगः स्यादकर्मकत्वाविशेषात् । । ततश्च मुक्ता अमुक्ताः स्युः । न चेदमिष्टं । तस्मात् प्रवाहतोऽनादिः संयोगः । नन्वनादिसंयोगे कथं विरहो ( वियोगो) जीवस्य कर्मणा सह ? उच्यते-काश्चनोपलानां यद्यप्यनादिः संयोगस्तथापि तथाविधसामग्रीसन्नावे धमनादिना शट्यवियोगो दृष्टः, एवं जीवस्यापि ध्यानाग्निनाऽनादिकर्मणा सह वियोगः सियो जवतीति । तथा हे आयुष्मन् ! कर्मानावे ॥ ११५॥ धर्माधर्मदानादानशीलाशीलतपोऽतपत्रादीनां सुखदुःखस्वर्गनरकादिफलं सर्व व्यर्थ स्यात्। तस्मात् स्वपदं विहाय कर्मस-३ नावं स्वांगीकुरु । ननु जगदादीनां सर्वेषां वस्तूनां कर्तेश्वर एव, कोऽर्थो वा वन्ध्यास्तनंधयलीलातुट्यादृष्टकर्मकट्पनया ?। तद --54 Jain Education Interne 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy