SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ नता सिंहालिंगनं कृतं । अथ मम तत्र शीघ्रगमनमेव युक्तं" । इत्यादिवाग्गर्जितं कृत्वा जिनान्तिकं प्राप्तः । तदा सर्व-11 दर्शिना नामगोत्राच्यामाजाषितः सन् दध्यौ–'जगत्प्रसिद्धोऽहं । कः किल मां न वेत्ति । यदि मे हृदयगत संशयं ज्ञास्यति, अपनेष्यति च, तदा भवेन्मम विस्मयः" । इति चिन्तयति तस्मिन् लगवानाह-“हे अग्निजूते गौतम ! त्वमेतन्मन्यसे । यत कर्माणि किं सन्ति न वेति । नन्वनुचितस्ते संशयः । त्वं वेदपदानामर्थ न जानासि, तेन संशयं करोषि । तेषामयमर्थः, तानि चामूनि वेदपदानि-पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च ज्ञाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति । यदेजति । यन्नेजति यह्रे यदन्तिके यदन्तरस्य सर्वस्यास्य बाह्यतः इत्यादि । तेषां चायमर्थस्तव पदे-पुरुप आत्मैव निंशब्दो निश्चये, स च कर्मनिषेधार्थः । इदं सर्वं प्रत्यहं वर्तमानं चेतनाचेतनं । यद्भूतं यदतीतं । यच्च जाव्यं मुक्तिसंसारौ । उत | समुच्चये । अमृतत्वस्यामरणस्य मोक्षस्य । ईशानः प्रतुः । यदन्नेनातिरोहति यदाहारेण वृधिमुपैति । यदेजति यच्चतति । पश्चादि । यन्नेजति पर्वतादि। यहूरे मेर्वादि । यदन्तिके समीपे । तदप्यात्मवेत्यर्थः । यदन्तर्मध्ये । अस्य चेतनाचेतनस्य । सर्वस्य यदेव सर्वस्यास्य बाह्यतः । तत्सर्वं पुरुष एवेत्यनेन कर्मानावः स्थाप्यते (त्वया)। तदयुक्तं । यतो वेदवाक्यानि हि कानिचिदिधिवादपराणि, कान्यप्यर्थवादप्रधानानि, अपराणि त्वनुवादपराणि । तत्राग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादिनि विधिवादपराणि । अर्थवादः स्तुत्यर्थवादः निन्दार्थवादो वा । तत्र पुरुष एवेत्यादीनि स्तुत्यर्थवादपराणि । पशुवधहेतुत्वायज्ञो न विधेय इत्ययं निन्दार्थवादः । पादश मासा संवत्सरः, अग्निरुष्णः, अग्निहिमस्य भेषजं इत्यादी-1 न्यनुवादप्रधाना, लोकप्रसिम्यस्यैवार्थस्यैतेष्वनुवादादिति । तस्मात् पूर्वोक्तानि स्तुतिपराणि जात्यादिमदत्यागायावत उ.प्रा.२० __JainEducation internataR 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy