SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati सुतं प्रासूत । ततस्तं बालं रत्नकंबलेन वेष्टयित्वा स्वजर्तृनामांकितां मुद्रां तत्करे निक्षिप्य वस्त्रादिक्षालनकृते सरसि प्रविशन्ती जलहस्तिना करेणादाय गगने दिप्ता । तदा नन्दीश्वरं जग्मुषा खेचरेन्द्रेण सा गगने एव गृहीता । ततस्तया रुदन्त्या सुतप्रसवज्ञातं चोटमुक्त प्रोक्तं (क्तश्च स प्रोक्तः ) तदाकर्ण्य विद्याधरेण विद्याबलेन तत्स्वरूपं कथितम् "न जवत्तनूरुहो वऋशिक्षिताश्वापहृतेन मिथिलेशेन पद्मरथेन गृहीत्वा स्वपत्यै पुत्रत्वेन दत्तोऽस्ति । त्वं विषादं मुक्त्वा मां पतित्वेन जजस्व" । इति निशम्य सा प्राह- 'नोः पूज्य ! पूर्व नन्दीश्वरे मम यात्रां कारय । ततोऽहं काम पूरणे यतिष्ये' । ततस्तेन नन्दीश्वरे नीता । तत्र द्विपञ्चाशतं तीर्थकरान्नत्वा तत्रागतं मणिचूमाधिं सार्वभौम राजर्षिं प्रणम्य यावत् स्थिता, | तावदवधिना प्राग्जव स्वरूपं ज्ञात्वा ब्रह्मकपाद्युगबाहुदेवेनागत्य प्राक् तस्याः पादांबुजं प्रणम्य ततः साधुं नत्वोपाविश्यत । तद्दृष्ट्वा मणिप्रभस्तं सुरं किमयुक्तमिदं कृतमित्युपासंजयत् । तदा चारणश्रमणमुनिः सुरस्य पूर्वज व स्वरूपमुक्त्वा तमजापत - “धर्माचार्यमनुस्मृत्य तूर्णमत्रेयिवानयम् । युक्तं मुनीन् विदायादौ ननामैनां महासतीम् ॥ १ ॥ यतः यतिना श्रावणाथ योऽर्ह में स्थिरीकृतः । स एव तस्य जायेत धर्माचार्यो न संशयः ॥ २ ॥” इति श्रुत्वा खेचरस्तं सुरं क्षमयामास । ततः सुरेण सा मिथिलायां मुक्ता । तत्र पुत्रं सुखान्वितं ज्ञात्वा स्वस्थचित्ता प्रवर्तिनी पार्श्वे दीक्षां जग्राह । १ उन्मार्गे मुक्तं । 05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy