________________
Jain Education Interna
वरदत्ताख्यो विजोऽस्ति । तनार्या रुपदत्ता, सा निष्करुणा । तयोः सप्त पुत्राः सन्ति । पटहं श्रुत्वा तेन स्वनार्या पृष्टा - 'हे प्रिये ! लघुपुत्रं दत्वा अव्यमिदं गृह्यते । धनस्य माहात्म्यं लोकोत्तरं । यतः -
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि तत्प्रजावो धनस्य हि ॥ १ ॥" तयापि निर्दयता स्वीकृतं । ततो द्विजेन पटदं धृत्वा कथितं - 'ममेदं प्रव्यं दत्वाऽयं पुत्रो गृह्यताम्' । प्रजाजिर्निरूपितं - "यदि त्वया त्वनार्यया च गलमोटनं विषं च दीयते, तदा युवाच्यां तद्दद्महे, नान्यथा " । तेन सर्व मानितं तत्पित्रोर्वाक्यं श्रुत्वा तत्पुत्रेणेन्द्रदत्तेन चिन्तितम् — 'अहो ! स्वार्थिक एव संसारः । निजपुत्रस्यापि पञ्चत्वे रोपयति' ततो महाजनस्य सोऽर्पितः । पश्चान्महाजनेन पुष्पादिनिरत्र्यर्च्य नृपान्तिकं नीतः । राज्ञापि प्रतोली सन्मुखमागच्छन्तं हसन्तं तं दृष्ट्वा जणितम् - 'रे माणवक ! किमर्थं हससि ? मरणात् किं न विजेषि ?' तेनोक्तं - "स्वामिन् !
तावद्भयाद्धि जेतव्यं यावद्भयमनागतम् । श्रागतं तु जयं दृष्ट्वा सोढव्यं तदशंकितैः ॥ १ ॥” पुनश्च प्राह — “हे राजन् ! येषां शरणं विधीयते, तेन्यो जयं जातं, वल्यंकुरेण हंसानां यथा । ज्ञातं चेदम्एकस्मिन् वने मानससरः । तत्पादयुपरि सरखोन्नतवृक्षोऽस्ति । तस्योपरि वहवो मराला स्तिष्ठन्ति । एकदा वृद्धहंसेन तद्वृक्षमूले वयं कुरं दृष्ट्ट्रोचे - "हे पुत्रपौत्राः ! एनं वह्नयंकुरं चञ्चप्रहारैस्त्रोटयत । येन सर्वेषां मरणं न स्यात्” । तछ्रुत्वा तरुण सैईसितं - " अहो ! श्रयं मरणाद्विजेति, सर्वकालं जीवितुमिच्छति । कस्मान्नयमिह ?” । वृद्धेन चिन्तितम् - "अहो ! एते मूर्खाः स्वहिताहितं न जानन्ति । यतः
2010_05
For Private & Personal Use Only
www.jainelibrary.org