SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ स्तंज. ४ ॥ एए ॥ Jain Education Internation खर ! यदि दासीं न ददासि तदैकं बागं ददस्व । श्रन्यथैनां क्षयित्वा त्वां क्षयिष्यामि” । ततः कुमारस्तं प्राह - 'कल्पान्तकालेऽपि त्वमुक्तं न करोमि । किं पुनः पुनः पृष्ठयते । तन्निश्चलत्वेन संतुष्टो दिव्यरूपधरो देवः प्राह - "नोः साहसिकशेखर ! श्रहं शक्रकृतां त्वत्प्रशंसामश्रद्दधानस्तव परीक्षार्थमत्र समागतोऽस्मि । तव प्रसादेनाहं सम्यक्त्वधरो जातः " । ततो देवस्तेन गन्धर्व विवाहं निर्माप्य स्वर्गं गतः । कुमारोऽपि महामहेन तां परिणीय स्वग्रामं श्राजगाम । ततः कुमारं राज्ये निवेश्य पित्रा व्रतं गृहीतं । संग्रामशूरनृपोऽपि श्रावकधर्म प्रपास्य पञ्चमकल्पे एकावतारत्वेन देवो जातः । संग्रामशूरो नृपतिप्रधानो, निक्षिप्तचेता यतनाद्ययुग्मे । कष्टेऽप्यहिंसा नियमान् पाल्य, श्रीब्रह्मकल्पं समलंचकार ॥ १ ॥ ॥ इत्युपदेशप्रासादे चतुर्थस्तंने षट्चत्वारिंशत्तमं व्याख्यानम् ॥ ४७ ॥ ॥ श्रथ सप्तचत्वारिंशत्तमं व्याख्यानम् ॥ ४७ ॥ अथान्ययतनाचतुष्टयं व्यावएर्यते मिथ्यात्व लिप्त चित्तानां संखापालापवर्जनम् । सकृद्धा बहुवारं वा न यछेदशनादिकम् ॥ १ ॥ मिथ्यादृशां चरकादीनां सस्नेहं कुशखं युष्माकमिति पुनः पुनः पृष्ठनं संलापः । तेषामेकवारं प्रचनमालापस्तयोर्वर्जनं, चेति शेषः । तेषामेकवारमनेकवारं वा दानं ( अशनादिकं ) न प्रयच्छेत् । इति तृतीया तुर्या पञ्चमी षष्ठी यतना । यदुक्तं For Private & Personal Use Only व्याख्यान. ४ ॥ एए ॥ www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy