________________
1
अत्र शत्रुगृहे देव न स्थातुं युज्यते चिरम् । इति तत्प्रेरितो बाला चेलणां व्याघुटन्नृपः ॥ १ ॥ ततः ज्येष्ठा र मुकमादायागता । तत्र कमपि नैदिष्ट । तदोच्चैश्चैलणाऽपहियत इति पूच्चकार । तदा चेटकजूपसैन्यं तत्पृष्ठे गतं । तत्राहवे सुलसैकपुत्रे वैरिणा हतेऽन्ये एकत्रिंशत्पुत्रा द्रुतं मृताः। नृपोऽपि द्रुतं स्वपुरं प्राप्य चेलणामुपायंस्त । श्रथ नागसुल से स्वसुतानाममंगलं श्रुत्वा नृशं रुरुदतुः । तदाऽजयोवकू"अपि जैनमतार्थवेदिनामपि संसारिकजावनाभृतां ।
जवतां नहि शोकसागरे, पतितुं युक्तमिवाविवेकिनाम् ॥ १ ॥ कुशको टिगोदक विन्दुवत् परिपक्कडुमपत्रवृन्दवत् । जलबुदुदवचरीरिणां, क्षणिकं देहमिदं च जीवितम् ॥ २ ॥
"
33
इति श्रुत्वा तौ दम्पती गतशोकावताम् ।
इतचंपायां श्रीवीरं नत्वाऽम्बरूपरिब्राजको राजगृहं पुरमचलत् । तदा जिनेनोक्तं- 'सुलसाया धर्मलानोऽस्मदीयस्त्वया वाच्यः । तथेति गदित्वा स तत्रागत्य दध्यौ - 'अस्याः स्थैर्य परीक्षे' । ततः स प्रथमदिने ग्रामस्य पूर्वगोपुरे वैक्रियशक्त्या चतुर्मुखो हंसवाहनोऽधगसावित्री नृत् साक्षात् ब्रह्मा वभूव । तदा तां विना सर्वे पौरास्तं नंतुं समाजग्मुः । द्वितीयेऽह्नि वृषभवाहनो गिरिसुतामंकितार्धाङ्गो जस्माञ्चितविग्रहः कंठे कालो जातः । तृतीयेऽह्नि तार्यारूढश्च
Jain Education Interim 2010_05
For Private & Personal Use Only
www.jainelibrary.org