SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका । ॥ ४० ॥ Jain Education Inter वृद्धं तदा नमस्कारपौरुषीवतां देयं पारणकवतां वाऽसहानां वा देयं यथा पारिष्ठापनिकाहारः कल्प्यः तदग्रे वक्ष्यते । विकृति के निर्विकृति च अद्रवविकृतिषु नव द्रवविकृतिष्वष्टाकारा ज्ञेयाः । शेषं प्राग्वत् । अष्टनवाकारयुक्तिं वक्तिनवणीओगाहिमए अद्दवदहि (व) पिसियघयगुले चैव । नव आगारा तेसिं सेसदवाणं च अट्ठेव ॥ १५९६ ॥ नवी अवगाहिम अद्रवदनि गालिते इत्यर्थः पिशिते मांसे घृतगुडे चैव, अद्रवत्वं सर्वत्र ज्ञेयं । अमूषां विकृतीनां नवाकारा स्युः । शेषद्रवाणां शेषाणां द्रवाणां विकृतीनां विलीनघृततैलद्रव गुडादीनामष्टावाकाराः उत्क्षिप्त विवेको न स्यादित्यर्थः ।। १५९६ ।। अथाचामाम्लं गोण्णं नाम तिविहं ओअण कुम्मास सतुआ चेव । इक्किक्कं पि य तिविहं जहन्नयं मज्झिमुकोसं ॥ १५९७ ॥ मालमिति गौणं नाम । आयामोऽवश्रामणं आम्लं चतुर्थरसः ताभ्यां निर्वृत्तं आयामाम्लं । इदं चोपाधिभेदात्रिधा-ओदनः धवलधान्यमित्यर्थः, कुल्माषाः काष्टद्विदलमित्यर्थः, सक्तवो लोह इत्यर्थः, ओदनादीनधिकृत्य स्यादिति । आचामाम्ले पक्त्रधान्यं निर्नखिकमप्यकल्प्यं मरीचजीरकादियुक् करीरादिफलानि च धान्यस्थानीयानि, पृथग् लवणं चाकल्यं उत्सर्गेऽनुक्तत्वात् । एकैकं ओदनादि त्रिविधं स्यात् । जघन्यं मध्यमं उत्कृष्टं स्यात् ।। १५९७ ।। कथमित्याह For Private & Personal Use Only आचामा म्लस्व रूपम् । ॥ ४० ॥ www.jainelibrary.org.
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy