________________
दवे रसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं ।
तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ १५९८ ॥ द्रव्ये गुणे रसे च । द्रव्यं गुणं रसं चाश्रित्येत्यर्थः। किं जघन्य मध्यमं उत्कृष्टं च ? तथा तस्यैवाचाम्लस्य प्रायोग्यं । तथा छलना तथा पश्चैव कुडंगा वक्रवादित्वभावा वक्तव्याः । तत्र आचामाम्लयोग्यं द्रव्यमुत्कृष्टं शालिगोधूमकुल्माषादि यद्यस्मै रोचते, रस उत्कृष्टः शाल्यादिवश्रावणादिना, गुणो निर्जरारूप: स तदा जघन्यः स्यात् । जघन्यं द्रव्यं रालका कोद्रवादिः, रसो जघन्यो यद्यस्मै नेष्टं उष्णाम्भो वा, तेन गुण उत्कृष्टो निर्जरारूपः । मध्यमद्रव्यरसयोर्गुणो निर्जरा मध्या स्यात् । अत्रायं वृद्धाम्नायः-आचाम्लं नाम सप्तधा शालिकूरादिद्रव्यं तद्भेदाश्च । तेनाचाम्लं क्रियते उपचारात्तदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यत एव । आचामाम्लप्रायोग्यं तन्दुलकणिकापिष्टपोलिकामण्डकादि, अस्य च निरपवादग्राह्यत्वात् प्रायोग्यत्वमुक्तम् । एवं कुलमाषाद्या आचामाम्लप्रायोग्यं तुषमिश्रितकणिकादिसक्तवो जवादीना[माचा]माम्लप्रायोग्यं धान्यमण्डकादि । आचामाम्लेऽपक्वतन्दुलादि प्रासुकमप्यकल्प्यं ओदनादीनामेवोक्तत्वात् । फलिकाः पलिमन्थत्वात्सदैवाग्राधाः किं पुनराचामाम्ले ?। तत्र कलमशालिकूरो द्रव्यत उत्कृष्टं द्रव्यं तत्सत्केनायामेन रसत उत्कृष्टं गुणतो जघन्यम् । स एव कूरोऽन्येषामायामैद्रव्यत उत्कृष्टो रसतो मध्यो गुणतोऽपि मध्यः, यदोष्णाम्बुना तदा रसतो जघन्यं गुणतो मध्यमम् । जौन(तण्डु)लोदना द्रव्यतो मध्यमा काञ्जिकेन रसोत्कृष्टा आयामेन रसमध्या उष्णोदकेन रसजघन्या एते त्रयो
43443434304545
Jain Education Internat
For Private & Personal Use Only
daw.janelibrary.org