________________
ROSCORES-4505669345
फलसुखमक्षिकादि । स्वद आस्वादने स्व(स्वा)द्यते इति स्वादिमं गुडदन्तपावनसंमुखशक्यादि (गुडताम्बूलपुगफलादि)। परं अनाभोगात् अत्यन्तविस्मृत्या अन्यत्र सहसाकारः सहसाऽजानतो मुखक्षेपस्तस्मादन्यत्र । अनामोगसहसाकारौ मुक्त्वाऽन्यत्र चतुराहारं प्रत्याख्यातीत्यर्थः, एवं व्युत्सृजति चतुराहारान् । अत्र सूत्रस्पर्शिनियुक्तिः
असणं पाणगं चेव खाइमं साइमं तहा।
एसो आहारविही चउबिहो होइ नायवो ॥ १५८१ ॥ आहारविधिराहारप्रकारः ॥ १५८१ ॥ निरुक्तिमाह
आसुं खुहं समेई असणं पाणाणुवग्गहे पाणं ।
खे माइ खाइमं ति य साएइ गुणे तओ साई ॥ १५८२ ॥ आशु शीघ्र क्षुधं शमयतीत्यशनं १ । प्राणानामिन्द्रियादीनामुपग्रहे उपकारे यद्वर्तते तत्पानं, खमित्याऽऽस्याकाशं तत्र मातीति खादिमं । स्वादयति गुणान् सरसाहारान् जारयति स्वादयति संयम भक्षते वा तत्स्वादिमं सर्वत्र निपातात सिद्धम् ॥ १५८२ ॥ चालनामाह
सबो वि य आहारो असणं सवो वि वुच्चई पाणं । सबो वि खाइमं ति य सबो वि य साइमं होई ॥ १५८३ ॥
Jain Education Internat
For Private & Personal use only
Silww.jainelibrary.org