SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका । ॥ ३४ ॥ Jain Education Internat पभिः स्थानकैः श्रद्धानादिभिः पालितैः प्रत्याख्यानं न दूषितं यदेव तच्छुद्धम्, तत्प्रतिपक्षेऽश्रद्धानादौ अशुद्धम् ।। २५५ ।। परिणाममाह थंभा कोहा अणाभोगा अणापुच्छा असंतई । परिणामओ असुद्ध अवाउ जम्हा विउ पमाणं ॥ २५६ ॥ स्तम्भाद्गर्वात् स्वगौरवार्थं १, क्रोधात् वृद्धनिर्भत्सनादेः २, अनाभोगाद्विस्मृतेः प्रत्याख्यानमज्ञात्वा वा भुङ्क्ते भोजनादनु स्मृतं प्रत्याख्यानं तेन भग्नं ३, अनापृच्छया स्वेच्छया गुर्वनुज्ञां विना भुङ्क, चेत्प्रक्ष्यामि तदा वक्ष्यन्ति उपवासस्त्वया कृत इति ४, असंततिरसम्पत्तिस्तया यथात्र किञ्चिन्नास्ति ततो वरं प्रत्याख्यानम् ५, तथा इहलोकाद्यर्थं परिणामतोऽशुद्धं ६, एवं न कल्पते । तथाऽपायान्निष्कासनादिभियों यत्कुरुते तदप्यसाधु तस्माद्विद्वान् क्रियायुक्तः प्रमाणम् । स जानन्नन्यथा न करोति तस्य शुद्धं स्यादित्यर्थः ।। २५६ || इयता 'पच्चक्खाणं पच्चक्खाओ' इत्याद्यगाथायाः प्रत्याख्यानपदं व्याख्यातं अत्रान्तरेऽध्ययनशब्दः प्राग्वत् । सूत्रालाप कनिष्पन्ने निक्षेपे सूत्रम् - सूरे उग्गए नमोकारसहियमित्यादि यावत् सहसागारेण वोसिरह सूरे उग्गए नमोकारसहियं पचक्खाइ चउवि पि आहारं असणं पाणं खाइमं साइमं, अण्णत्थणाभोगेणं सहसागारेण वोसिरह || (सूत्रम् ) सूर्ये उद्गते नमस्कारसहितं मुहूर्त्तादिना नमस्कारकथनादर्वाक् प्रत्याख्याति । चतुर्विधमप्याहारम् |' अशू ' भोजने, अश्यते इत्यशनं मण्डकाद्रादि ( मण्डकौदनादि ) । पीयते इति पानं जलादि । 'खाद्य' भक्षणे, खाद्यते इति खादिमं For Private & Personal Use Only नमस्कारस हितप्रत्या ख्यानम् । ॥ ३४ ॥ www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy