________________
Jain Education Interna
ख्यानत्वेन मिलतः द्वावपि पर्यन्तौ तद्भण्यते कोटीसहितम् । यथा प्रातरावश्यके भक्तार्थः कृतः ततो द्वितीयेऽह्नयपि तं कुर्यादेवं द्वितीयोपवासस्य प्रस्थापनाऽऽद्यस्य तु निष्ठापनेति द्वौ कोणौ मिलितौ, एवं आयम्बिलनिच्चियएगासण एगट्ठाणाण वि । अष्टमादिषु उभयतः कोटिः यतो द्वितीयप्रत्याख्यानाहोरात्रान्त एवोपवासो मिलितः । आद्योपवासाहोरात्रान्त एव च द्वितीयं प्रत्याख्यानं मिलितमिति । यद्वोपवासान्ते आचामाम्लं पुनरुपवासाचामाम्ले इति, एवं एकासनादिष्वपि संयोगः । निर्विकृत्यादिष्वपि प्रत्याख्यानेष्वपि सदृशेषु विसदृशेषु च संयोगः कार्यः || १५६४ ॥ नियन्त्रितमाह
मासे मासे अवो अमुगो अमुगे दिणंमि एवइओ । हट्टेण गिलाणेण व कायवो जाव ऊसासो ॥ १५६५ मासे मासेऽमुकममुकं चतुर्थादितपः, एतावन्मात्रं संख्यया, अमुकदिवसे हृष्टेन नीरोगेण ग्लानेन वा कार्यम् यावदुच्छ्वासो यावदायुः ।। १५६५ ॥
एयं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं ।
जंगितऽणगारा अणिस्सि (भ) अप्पा अपडिबद्धा || १५६६ ॥
नियन्त्रितं यद् गृह्णन्ति अनगारा अनिश्रितात्मानोऽनिदाना वृद्धा अप्रतिबद्धा देहक्षेत्रादिषु ।। १५६६ ।। चउदस पुवीजिणकप्पिएसु पढममि चैव संघयणे । एयं विच्छिन्नं खलु थेरा वि तया करेसी य। १५६७
For Private & Personal Use Only
www.jainelibrary.org