________________
आवश्यक
निर्युक्तिदीपिका ।
॥ २३ ॥
Jain Education Internat
साधोर्जघन्या स्थितिः पल्यपृथक्त्वं उत्कृष्टा त्रयस्त्रिंशत्सागराणि । गतेर्भेदः साधुः सुरगतौ मोक्षेऽपि श्राद्धचतसृष्वेव । कषायाद्भेदः साधुः कषायोदयमाश्रित्य संज्वलन चतुस्त्रिद्व्येककषायोऽपि स्यादकषायो वा श्रावकोऽप्यविरतो द्वादशकपायी देशविरतस्त्वष्टकपायी । बन्धाद्भेदः साधुर्मूलप्रकृत्यपेक्षयाऽष्टविधबन्धकः सप्तविधबन्धकः षड्विधबन्धक एकविधबन्धको वा श्राद्धस्त्वष्टविधबन्धको वा सप्तविधबन्धको वा । वेदनाभेदः साधुरष्टानां सप्तानां चतसृणां प्रकृतीनां वेदकः । श्राद्धस्त्वष्टानामेव । प्रतिपत्तिभेदः साधुः पञ्चमहाव्रतानि समकं प्रपद्यते श्रावकस्तु एकमणुव्रतं द्वे इत्यादि । अथवा साधुः सकृत्सामायिकं प्रपद्य सर्वकालं धारयति श्रावकस्तु पुनः पुनः प्रपद्यते । अतिक्रमाद्भेदः साधोरेकव्रतातिक्रमे पञ्चवतातिक्रमः श्राद्धस्य त्वेकस्यैव । तथा 'सङ्घ'ति सर्वं सावद्यं इति भणित्वा यस्य विरतिः सर्वा नास्ति अनुमतेर्नित्यप्रवृत्तत्वात् स सर्वविरतिवादी देशविरतिं सर्वविरतिं च भ्रश्यति । 'मण ० ' मनोदुष्प्रणिधानं मनसा गृहव्यापारादिसावद्यध्यानं १ । वाग्दुष्प्रणिधानं सावद्यासभ्यवादिताऽसमि - तेन च वक्तृत्वम् २ | कायदुष्प्रणिधानं अनिरीक्ष्याप्रमृज्य करांद्रयादिन्यासः स्थानादेर्वा करणम् ३ । सामायिकस्य सम्बन्धिनी या स्मृतिरुपयोगस्तस्या अकरणम् । यथा प्रमादान्नैव स्मरत्यस्यां वेलायां मया सामायिकं कर्त्तव्यं कृतं न कृतमिति वा, यतः 'न सरह पमायजुत्तो जो सामइयं कया उ कायवं । कयमकयं वा तस्स उ कथं पि विफलं तयं नेयं । १।४ । सामायिकस्यानवस्थितस्य करणं । अनवस्थितमल्पकालं करणानन्तरमेव त्यजति, यथा 'काऊण तक्खणं चिय पारेह करेह वा जहिच्छाए । अवट्ठियसामाइयं अणायाराओ असुद्धं तु' । १ । करोति वा यदृच्छयाऽव्यवस्थितत्वेन ५ ।
foreseeatree दिसापरिमाणस्स पइदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स सम
For Private & Personal Use Only
साधुश्रावकयोः
शिक्षादि
कृतभेदः
सामायिक
व्रताति
चाराश्व ।
॥ २३ ॥
ww.jainelibrary.org