SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ णोवासएणं इमे पश्च अइयारा जाणियव्वा, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रूवाणुवाए बहिया पुग्गलपक्खेवे १० ॥ (सूत्रम्) दिग्वतमध्यगृहीतस्य यावजीवसम्बन्धिदिपरिमाणस्यैव प्रतिदिनमित्येतत् प्रहरमुहूर्ताद्युपलक्षणं प्रमाणकरणं दिनादिगमनयोग्य देशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकम् । देशो दिग्वतप्रमाणस्य विभाग उपलक्षणात्प्राणातिपातादिवतानामपि यावजीवसम्बन्धिपरिमाणनियमानां दिनादिविषये देशतः सर्वतो वा आरम्भत्यागेन संक्षेपणं देशस्तस्यावकाशो गत्यादि. चेष्टाबन्धो देशावकाशस्तेन निवृत्तं देशावकाशिकं, यतः 'एगमुहुत्तं दिवसं राई पंचाहमेव पक्खं वा । वयमिह धारेउ दढं जावइयं उच्छहे कालं' ॥१॥ देशावकाशिकवतं दृढं धारयेत् यावन्तं कालं उत्सहेत शक्नुयात् । आनयनप्रयोगः नियमितभूवाद्यवस्तुनः परेण नरेण सन्देशादिना वा आनयनाय प्रयोजनं व्यापारणम् । एवं दिननियमे सावधानतया स्थेयं । स्वयमगच्छता परेणापि नानेयम् । बलाद्विनियोज्यः प्रेष्यस्तस्य प्रयोगोऽन्येन नियमितभूवहिःकार्यकारणं नियमितभवो बहिः कार्यकारणाय क्षुत्कासशब्दानुपातैः परस्य ज्ञापनं शब्दानुपातः ३ । एवं स्वरूपदर्शनं परेषां रूपानुपातः ४ । नियमितभुवां बहिः कर्करादिपुद्गलप्रक्षेपः ५। इह देशावकाशिकं प्राणिहिंसारक्षाये गृह्यते, अन्यप्रेषणे च प्राणिहिंसा कारितैव । ततः कृतकारितयोन कोऽपि फलभेदः । किन्तु स्वयं गतौ ईर्याशुद्धिः स्यादन्यगतौ त्वदक्षत्वादयतनैवेति भावः । तथा नियमितभुवो बहिः शब्दादयोऽपि विषयतया नानेयाः ते आसन्ने आयान्ति तदा भव्यं अहं वा आसन्नो यामीत्यादि न चिन्त्यम् । पोसहोववासे चउविहे पन्नत्ते, तंजहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावार NAHARASHASIRAHAS For Private & Personal Use Only www.janelibrary.org Jain Education inte
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy