________________
540%AISHESAKAA%CC093e
श्राद्धसाध्वोरैर्यापथिक्यां कथं समोच्छ्वासाः । उच्यते समितगुप्तयोयोरप्येवंशुद्धेर्देशसर्वविरत्योः प्रपत्त्या सम्यक्त्वबलात् सावध महाभीतः, असमितयोस्तु द्वयोरप्यन्यछेदपर्दैनवापि संयमस्थानभेदानां श्राद्धगुणानां च तारतम्येन वृद्धिहान्योरसङ्ख्यत्वात् , तत आवश्यक साम्यमेव इति श्रावकयोग्यषडावश्यकविचारः।
ननु कृतसामायिकः श्राद्धो गुणैः साधुरेव । स कस्मादित्वरं सामायिक सर्वसावद्ययोग प्रत्याख्यामीति नोच्चरति ? सर्व सावधविरतेरगारिणोऽसम्भवात् आरम्भेष्वनुमतेरव्यवच्छिन्नत्वात् कनकादिषु चात्मनहानिवृत्तेः साधुश्रावकयोश्च प्रपश्चेन मेदाभिधानात् तथा चाह
सिक्खा दुविधा गाहा उववातठिती गती कसाया य । बंधता वेदेन्ता पडिवजाइक्कमे पंच ॥१॥
शिक्षाकृतः साधुश्रावकयोमहान् भेदः। शिक्षा द्विधाऽऽसेवनाशिक्षा ग्रहणशिक्षा च । शिक्षाऽभ्यासस्तत्रासेवनाशिक्षामाश्रित्य सम्पूर्णामेव चक्रवालसामाचारी सदा साधुः पालयति । श्रावकस्तु आचाराडोक्ता सामायिकेऽपि पूर्णां न पालयत्यज्ञानादसम्भवाच । ग्रहणशिक्षा त्वाश्रित्य साधुर्जघन्येन सूत्रतोऽर्थतश्चाष्टौ प्रवचनमातरुत्कृष्ट तस्तु बिन्दुसारपर्यन्तं गृह्णाति । श्रावकः सूत्रतोऽथेतश्च जघन्येनाष्टप्रवचनमातृरुत्कृष्टतः षड्जीवनिका भणति व्याख्यानयति च । अर्थतस्तु पिण्डैषणां आचाराङ्गोक्तां शृणोति तथा गाथासूत्रप्रामाण्याच्च, यत उक्तं 'सामाइयंमि उकए०'अत्र सामायिके श्रावका श्रमण इव स्यादित्युक्तं न तु श्रमण एवेति यथाऽब्धिवत्तडागः। शेषं प्राग्व्याख्यातमेव । तथोपपातस्यापि भेदः श्राद्धस्योत्कृष्टोपपातोऽच्युते, साधोस्तु सर्वार्थसिद्धौ जघन्येन द्वयोरपि सौधर्मोपपातः । स्थितेरपि भवान्तरे भेदः श्राद्धस्य जघन्या स्थितिः पल्यमुत्कृष्टा द्वाविंशति सागराणि ।
Jain Education Internat
For Private & Personal Use Only
Noww.jainelibrary.org