________________
आवश्यकनियुक्ति दीपिका।
III
सामायिक
ग्रहणविधिः।
॥२२॥
इति आवश्यकनियुक्तिवचनात् कुस्वप्नकायोत्सर्गः साधुक्त श्राद्धस्यापि युज्यते यथा ईर्यापथकायोत्सर्गः साधुश्राद्धयोस्तुल्य एवेति । तथा 'सो उस्सग्गो दुविहो चिट्ठाए अभिभवे य नायबो । भिक्खायरियाए पढमो उवसग्गभिजुजणे बीओ' ॥१॥ इत्यादि गाथा । ततः सामायिके कृते द्वितीयोऽभिभवकायोत्सर्गोऽपि युक्तः, यथा चन्द्रावतंसकराजादिभिः कृत इति ।। किश्चैष आवश्यकविधिः स्वल्पोऽपि पूर्वश्रुतधराभिहितत्वात्तत्प्रमाणमेव । यदि च समधिकमपि विधि सूत्रभाष्यचूर्णिचिरन्तनवृत्त्यादिभिः श्राद्धमाश्रित्य कोऽपि दर्शयति तदा सोऽपि प्रमाणं नात्र कोऽप्यभिनिवेशोऽस्ति यतः 'से नूणं भंते ! तमेव सचं नीसंकं जं जिणेहिं पवेइयं, हंता गोयमा! तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं' भगवत्यां, स्थानकेष्वपि 'आगमं आयरंतेण अप्पणो हियकंखिणा । तित्थनाहो गुरू धम्मो सवे ते बहुमन्निया' ॥१॥ अतः सिद्धान्तोक्तविधिः श्रद्धेयः । पञ्चमे क्षेत्रखलादौ सामायिकस्थाने कदाचित्सम्पूर्णमपि षडावश्यकं कदाचिदसम्पूर्णमपि कदाचित्केवलमपि सामायिकं भवति । तथाहि यदि चिरं स्थास्यति निर्व्यापारश्च भूमिरपि निषद्या रुयादिसंघट्टोद्योतिकादिवर्जिता मिथ्यादृष्ट्यादिसागारिकाभावश्च तदा सर्वमावश्यक कुर्यात् , कारणे तु सामायिकरहितमप्यावश्यकं, विशेषकारणे तु केवलं सामायिकं कृत्वा नमस्कारादि परावर्त्तते । सामायिकवेलाया अभावे त्वभिग्रहविशेषरूपं ग्रन्थ्यादि यावत् सावधप्रत्याख्यानं कुर्यात् । यतोऽत्रैवाग्रे चूर्णी 'अंगुट्ठमुट्ठिगंठी त्ति' व्याख्याने 'ताब न जेमेमि जाव न मुढि मुयामीत्यादि न केवलं भत्ते अन्नेसु वि अभिग्गहविसेसेसु । ततोऽभिग्रहविशेषाः सर्वार्थविषया भवन्ति । तथा 'वंदित्तु सबसिद्धे' इत्यादि प्रतिक्रमणनामरूढं सूत्रं नियुक्ती नोक्तं, तथा श्राद्धानां पाक्षिकप्रतिक्रमणसूत्रे च भिन्न क्षामणानि च । ततोऽयमावश्यकचयुक्तः संक्षिप्तोऽप्यावश्यकविधिश्चिरन्तनश्राद्धानां ज्ञेयः। ननु
94242-ARCH
॥२२ ॥
G
For Private & Personal Use Only
Jain Education Intemat
ww.jainelibrary.org