SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ A 4 % तत्र सेतुक्षेत्रमरघट्टादिसेक्यं, केतुक्षेत्रं त्वाकाशपतितोदकनिष्पाद्यम् । उच्यतेऽवेति वास्तु गृहम् । तत्रिधा खातं उत्सृतं खातोत्सृतं च। तत्र खातं भूमिगृहादि । उत्सृतं प्रासादादि । खातोत्सृतं भूमिगृहोर्चे प्रासादः। एषां क्षेत्रवास्तूनां प्रमाणातिक्रमः प्रत्या| ख्यानकालगृहीतप्रमाणोल्लङ्घनम् १। हिरण्यसुवर्णप्रमाणातिक्रमः तत्र हिरण्यं रजतमघटितं घटितं च द्रम्मादि, एवं सुवर्णमपि । तयोः प्रमाणातिक्रमः भार्यादीनामायत्तताकरणेन २। धनधान्ययोलम्ययोः स्थाप्यकरणेन समर्पयोर्वा सत्यङ्कारदानेन । वर्षाव| धिपूतों अग्रेतनं मृढकेषु वा व्यापृतेषु ग्रहीष्ये इति चिन्तया सुवर्णग्रहणाद्यपि ज्ञेयम् । धनं गणिमं पूगादि १ धरिमं मञ्जिष्ठादि २ मेयं घृतादि ३ परिच्छेद्यं च मण्यादि ४ । धान्यं स्पष्टं ३ । द्विपदा दास्याद्या मोराद्याश्च चतुष्पदाः ४ । कुप्यमासनशयनभोजनपरिवेषणस्नानाद्युपभोगहेतुवस्तुजातं वस्त्राणि च तत्प्रमाणातिक्रमः। यथा प्रागन्यद्रम्मैः कुप्यं चिन्तितं स्याचतो धनवृद्धौ द्रम्मपरावर्त कुर्यात् स्थालादीनां वाऽन्यनामतां कुर्यात् ५ । एतान्यणुव्रतानि ॥ ५॥ अणुव्रतानां पालनाय गुणकारीणि गुणव्रतान्युच्यन्ते, यथा दिसिवए तिविहे पन्नत्ते उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स समणोवासएणं इमे पञ्च अइयारा जाणियव्वा, तंजहा-उडदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्डी सइअंतरद्धा ६॥ (सूत्रम् ) व्रतं नियम उच्यते, ऊर्ध्वदिग्वतं एतावती दिगृवं पर्वताद्यारोहणादवगाहनीया न परत इत्येवम्भूतम् १ । अधोदिग्वतं एतावती दिगधः वाप्याद्यवतरणादवगाह्मेति २। तिर्यगदिगवतं इयती दिग् पूर्वेणावगाया इयती दक्षिणेनेत्यादि न परत इति A5-%A5ASHIS Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy